________________ रेचकप्राणायामः 111 सकलदेहगतं नाडीगणं वा पवनेन 'पूरयति', किं कृत्वा ? 'द्वादशा लपर्यन्तं समीरणं समाकृष्य' द्वादशाङ्गुलप्रमाणं बहिस्तात्पवनं समन्तादाकृष्य / अत्रायमर्थः - पवनो नभस्तत्त्वे वहमाने नासान्तःस्थ एव भवति, तेजस्तत्त्वे वहमाने चत्वार्यङ्गलानि बहिस्तादूर्ध्वगः स्फुरति, वायुतत्त्वे वहमाने षडङ्गलानि बहिस्तात्तिरश्चीनश्चरति, पृथ्वीतत्त्वे वहमानेऽष्टाङ्गलानि यावद्बहिर्मध्यमभावेन तिष्ठति, जलतत्त्वे वहमाने द्वादशाङ्गलानि यावदधस्ताद्वहति, यदाह - "नासान्त भसोऽब्ध्यंहयष्टार्कसङ्ख्याङ्गलोत्तरा / तेजोवायुपृथिव्यम्बुबहिर्गतिरुदाहृता // 1 // " ( ) ततो द्वादशाङ्गलपर्यन्तं वारुणमण्डलप्रचारावसरेऽमृतमयं पवनं समाकृष्येत्यर्थः, एतच्च पूरकध्यानं कर्मतया केचिदाहुः - "वक्रघ्राणप्राणमाकृष्य तेन, स्थानं भित्त्वा ब्रह्मसूरीश्वराणाम् / स्थूलाः सूक्ष्मा नाडिकाः पूरयेद्यद्, विज्ञातव्यं कर्म तत्पूरकाख्यम् // 1 // " ( ) // 55 / / अथ रेचकप्राणायाममाह - निस्सार्यते ततो यत्ना-न्नाभिपद्मोदराच्छनैः / योगिना योगसामर्थ्या-द्रेचकाख्यः प्रभञ्जनः // 56 // व्याख्या - 'ततः' पूरकादनन्तरं 'योगिना' साधकेन ‘योगसामर्थ्यात्' प्राणायामाभ्यासबलाद् 'रेचकाख्यः प्रभञ्जनो' रेचकनामा पवनो 'नाभिपद्मोदरात्' नाभिपङ्कजकोटरात् ‘शनैः' मन्दं मन्दं 'यत्नाद्' आदरात् 'निस्सार्यते' बहिक्षिप्यते, तद्रेचकध्यानम्, यदाह -