________________ 110 पूरकप्राणायामः "उत्साहान्निश्चयाद्वैर्या-त्सन्तोषात्तत्त्वदर्शनात् / मुनेर्जनपदत्यागात्, षड्भिर्योगः प्रसिद्ध्यति // 411 // " (योगबिन्दुः ) // 52-53 // अथ प्राणायाममाह - अपानद्वारमार्गेण, निस्सरन्तं यथेच्छया। निरुध्योर्ध्वप्रचाराप्ति, प्रापयत्यनिलं मुनिः // 54 // व्याख्या - 'मुनिः' योगीन्द्रः ‘अनिलं' = पवनं 'ऊर्ध्वप्रचाराप्ति' दशमद्वारगोचरताप्राप्ति ‘प्रापयति', किं कृत्वा ? 'अपानद्वारमार्गेण' पायुवफ्ना पवनं 'यथेच्छया निस्सरन्तं' स्वस्वभावेन गच्छन्तं 'निरुध्य' सङ्कोच्य, मूलबन्धयुक्त्याऽपानपवनमाकुञ्च्येत्यर्थः, मूलबन्धश्चायम्"पाणिभागेन सम्पीड्य, योनिमाकुञ्चयेद् गुदम् / अपानमूर्ध्वमाकृष्य, मूलबन्धो निगद्यते // 1 // " ( ) इदमाकुञ्चनकर्मैव प्राणायामस्य मूलम्, यदुक्तं ध्यानदण्डकस्तुतौ - "सङ्कोच्यापानरन्ध्र हुतवहसदृशं तन्तुवत्सूक्ष्मरूपं, धृत्वा हृत्पद्मकोशे तदनु च गलके तालुनि प्राणशक्तिम् / नीत्वा शून्यातिशून्यां पुनरपि खगति दीप्यमानां समन्तालोकालोकावलोकां कलयति स कलां यस्य तुष्टो जिनेशः // 1 // " ( ) // 54 // अथ पूरकप्राणायाममाह - द्वादशाङ्गुलपर्यन्तं, समाकृष्य समीरणम् / पूरयत्यतियत्नेन, पूरकध्यानयोगतः // 55 // व्याख्या - योगी पूरकध्यानयोगाद् ‘अतियत्नेन' अतिप्रयत्नेन कोष्ठं