________________ 109 ध्यातुः स्वरूपम् "नासावंशाग्रभागस्थितनयनयुगो मुक्तताराप्रचारः, शेषाक्षक्षीणवृत्तिस्त्रिभुवनविवरोद्धान्तयोगैकचक्षुः / पर्यङ्कातङ्कशून्यः परिगलितघनोच्छासनिःश्वासवातः, सध्यानारूढमूर्तिश्चिरमवतु जिनो जन्मसम्भूतिभीतेः // 1 // " ( ) पुनः कथम्भूतः ? 'किञ्चिदुन्मीलितेक्षणः' किञ्चिदुन्मीलिते = न्मीलिते अक्षिणी भवतः / यदाह - "गम्भीरस्तम्भमूर्तिर्व्यपगतकरणव्यापृतिर्मन्दमन्दं, प्राणायामो ललाटस्थलनिहितमना दत्तनासाग्रदृष्टिः / नाप्युन्मीलन्निमीलन्नयनमतितरां बद्धपर्यङ्कबन्धो, ध्यानं प्रध्याय शुक्लं सकलविदनवद्यः स पायाज्जिनो वः // 1 // " ( ) पुनरपि कथम्भूतः ? 'दूरोत्सारितमानसो' विरलीकृतचित्तः, कस्मात् ? 'विकल्पवागुराजालात्' कल्पनावागुरिकाबन्धात्, यतो विकल्पा एव बाढं कर्मबन्धनहेतवः, यदाह - "अशुभा वा शुभा वाऽपि, विकल्पा यस्य चेतसि / स स्वं बध्नात्ययःस्वर्ण-बन्धनाभेन कर्मणा // 1 // वरं निद्रा वरं मूर्छा, वरं विकलतापि वा / न त्वार्त्तरौद्रदुर्लेश्या-विकल्पाऽऽकुलितं मनः // 2 // " ( ) भूयः कथम्भूतः ? 'संसारोच्छेदनोत्साहः' संसारोच्छेदनार्थं = भवपरिहारार्थम् उत्साहः = उद्यमो यस्य स तथा, भवच्छेदकध्यानार्थमुत्साहवतां हि योगसिद्धिः स्यात्, यदाह -