________________ 108 ध्यातुः स्वरूपम् "आहारासणनिद्दाजयं च, काऊण जिणवरमएणं / झाइज्झइ निअअप्पा, उवइटुं जिणवरिदेणं // 64 // " (वैराग्यरसायनम्) [ छाया - आहारासननिद्राजयं च, कृत्वा जिनवरमतेन / ध्यायते निजक आत्मा, उपदिष्टं जिनवरेन्द्रेण // 64 // ] तत्र पर्यङ्कासनम् - "स्याज्जङ्घयोरधोभागे, पादोपरि कृते सति / पर्यो नाभिगोत्तान-दक्षिणोत्तरपाणिकः // 451 // " (योगशास्त्रम्) कैश्चित्सिद्धासनमित्युच्यते, यथा - “योनि वामपदाऽपरेण निबिडं सम्पीड्य शिश्नं हनु, न्यस्योरस्यचलेन्द्रियः स्थिरमना लोलां च ताल्वन्तरे / वंशस्थैर्यतयाऽभितिनिश्चलदृशा पश्यन् ध्रुवोरन्तरं, योगी योगविधिप्रसाधनकृते सिद्धासनं साधयेत् // 1 // " ( ) अथवाऽऽसननियमो नास्ति, यदाह - "यस्मिन् यस्मिन्नासनेऽभ्यस्यमाने, चेतःस्थैर्य जायते तत्र तत्र / कार्यो यत्नः पद्मपर्यङ्ककायोत्सर्गकांहिद्व्यंह्रिवज्रासनादौ // 1 // " ( ) कथम्भूतो योगीन्द्रः ? 'नासाग्रदत्तसन्नेत्रः' नासाग्रे दत्ते = न्यस्ते सती प्रसन्ने नेत्रे = लोचने यस्य स तथा, यतो नासाग्रन्यस्तलोचनो हि ध्यानसाधको भवति / यदाह ध्यानदण्डकस्तुतौ -