________________ 107 ध्यातुः स्वरूपम् अभ्यासवर्जितैर्ध्यानैः, शास्त्रस्थैः फलमस्ति नो / भवेन्न हि फलैस्तृप्तिः, पानीयप्रतिबिम्बितैः // 3 // " ( ) ततोऽभ्यासादेव 'विशुद्धधीः' निर्मलतत्त्वानुयायिबुद्धिरिति // 4849-50 // अथात्राष्टमे गुणस्थाने क्षपकस्य शुक्लध्यानारम्भमाह - तत्राष्टमे गुणस्थाने, शुक्लसद्ध्यानमादिमम् / ध्यातुं प्रक्रमते साधु-राद्यसंहननान्वितः // 51 // व्याख्या - क्षपकः 'साधुस्तत्राष्टमे गुणस्थाने' 'शुक्लसद्ध्यानं' शुक्लनामकं प्रधानं ध्यानम्, आद्यं = प्रथमं पृथक्त्ववितर्कसप्रविचारलक्षणं वक्ष्यमाणं 'ध्यातुं प्रक्रमते', कथम्भूतः साधुः ? 'आद्यसंहननान्वितो' वज्रर्षभनाराचनामकप्रथमसंहननयुक्त इति // 51 / / अथ ध्यातुरेव स्वरूपं श्लोकद्वयेनाऽऽह - निष्पकम्पं विधायाथ, दृढं पर्यमासनम् / नासाग्रदत्तसन्नेत्रः, किञ्चिदुन्मीलितेक्षणः // 52 // विकल्पवागुराजाला-दूरोत्सारितमानसः / संसारोच्छेदनोत्साहो, योगीन्द्रो ध्यातुमर्हति // 53 // व्याख्या - 'अथ' अनन्तरं 'योगीन्द्रः' क्षपकमुनीन्द्रः, व्यवहारमाश्रित्य ‘ध्यातुमर्हति' = ध्यानारम्भयोग्यो भवतीति सम्बन्धः, किं कृत्वा ? 'पर्यङ्कासनं' 'दृढं' निबिडबन्धं 'विधाय', कथम्भूतम् ? 'निष्प्रकम्पं' निश्चलम्, यत आसनजय एव ध्यानस्य प्रथमः प्राणः, यदाह