________________ 106 अष्टमगुणस्थानादर्वाक् याः कर्मप्रकृती: क्षपकः क्षपयति अनिबद्धायुषः प्रान्त्य-देहिनो लघुकर्मणः / असंयतगुणस्थाने, नरकायुः क्षयं व्रजेत् // 48 // तिर्यगायुः क्षयं याति, गुणस्थाने तु पञ्चमे / सप्तमे त्रिदशायुश्च, दृग्मोहस्यापि सप्तकम् // 49 // धर्मध्याने कृताभ्यासः, प्राप्नोति स्थानमष्टमम् // 50 // ___॥त्रिभिर्विशेषकम् // व्याख्या - ‘प्रान्त्यदेहिनः' चरमशरीरस्य ‘अबद्धायुषः' अकृतायुर्बन्धस्य ‘लघुकर्मणः' अल्पकर्मणः = अल्पकाँशस्य क्षपकस्य 'असंयतगुणस्थाने' चतुर्थे गुणालये 'नरकायुः क्षयं व्रजेत्' नरकयोग्यायुः क्षयं याति, तथा ‘पञ्चमे गुणस्थाने तिर्यगायुः क्षयं याति', 'सप्तमे' गुणस्थाने 'त्रिदशायुः' देवायुरपि क्षयं याति, तथा तत्र सप्तमे गुणस्थाने 'दृग्मोहस्य सप्तकमपि' क्षयं याति, ततः क्षपकः साधुरष्टाचत्वारिंशदधिकशतकर्मप्रकृतिमध्यादेता दश प्रकृतीः क्षयं नीत्वाऽष्टत्रिंशदधिकशतप्रकृतिसत्ताकोऽष्टमं स्थानं ‘प्राप्नोति' लभते, कथम्भूतः ? 'धर्मध्याने कृताभ्यासः' उत्कृष्टे धर्मध्याने रूपातीतलक्षणे कृतोऽभ्यासो येन स तथा, अभ्यासः = पुनः पुनरासेवनम्, तेनैवाभ्यासयोगेन तत्त्वप्राप्तिः स्यात्, यदाह - "अभ्यासेन जिताहारो-ऽभ्यासेनैव जितासनः / अभ्यासेन जितश्वासो-ऽभ्यासेनैवानिलत्रुटि: // 1 // अभ्यासेन स्थिरं चित्त-मभ्यासेन जितेन्द्रियः / अभ्यासेन परानन्दो-ऽभ्यासेनैवात्मदर्शनम् // 2 //