________________ 115 आद्यं शुक्लध्यानम् स्वशुद्धात्मानुभूतात्म-भावश्रुतावलम्बनात् / अन्तर्जल्पो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् // 62 // व्याख्या - ‘यस्मिन्' ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितर्को विचारणात्मकस्तत्सवितर्फ ध्यानं 'स्यात्', कस्मात् ? 'स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात्' स्वकीयनिर्मलतमपरमात्मतत्त्वानुभवमयान्तरङ्गभावगतागमावलम्बनतः, इत्युक्तं सवितर्कं ध्यानम् // 62 // अथ सविचारमाह - अर्थादर्थान्तरे शब्दा-च्छब्दान्तरे च सङ्क्रमः / योगायोगान्तरे यत्र, सविचारं तदुच्यते // 63 // व्याख्या - 'यत्र' ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थादर्थान्तरे सङ्क्रमते, 'शब्दात् शब्दान्तरे' सङ्क्रमते, 'योगायोगान्तरे' सङ्क्रमते, तद्ध्यानं 'सविचारं' ससङ्क्रमणमुच्यत इति // 63|| द्रव्याद् द्रव्यान्तरं याति, गुणाद् याति गुणान्तरम् / पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः // 64 // व्याख्या - यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसङ्क्रमणरूपोऽपि निजशुद्धात्मद्रव्याद् द्रव्यान्तरं याति, अथवा गुणाद् गुणान्तरं याति, यद्वा पर्यायात् पर्यायान्तरं याति, तत्र - "सहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा / क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः // 1 // " ( ) तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं = पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् // 64 //