________________ 104 उपशमश्रेणीनां सम्भवसङ्ख्या व्याख्या - 'अपूर्वाद्यास्त्रयोऽपि शमोद्यताः' त्रयोऽप्युपशमका ऊर्ध्वमारोहमाश्रित्य एकमेव गुणस्थानं यान्ति, कोऽर्थः ? अपूर्वकरणगुणस्थानादनिवृत्तिबादरं यान्ति, तद्वर्तिनः सूक्ष्मसम्परायं यान्ति, तद्वर्तिनश्चोपशान्तमिति, तथाऽपूर्वाद्याश्चत्वारोऽप्युपशमकाः ‘च्युतौ' च्यवनविषये 'आद्यं' मिथ्यात्वगुणस्थानं यान्ति 'वा' अथवा 'अन्त्यदेहिनः' चरमशरीराः सप्तमगुणस्थानं यावद् यान्ति, ते च सप्तमात्पुनः क्षपकश्रेणिमारोहन्ति, परमेकवारं कृतोपशमा एव क्षपकत्वं कुर्वन्ति, न तु तत्रैव भवे द्विवेलं कृतोपशमाः, यदाह - "जीवो हु एगजम्मंमि, इक्कसि उवसामगो / खयंपि कुज्जा नो कुज्जा, दोवारे उवसामगो // 1 // " ( ) [ छाया - जीवश्चैकजन्मनि, एकश उपशमकः / क्षयमपि कुर्यात् नो कुर्यात्, द्विकृत्व उपशमकः // 1 // ] // 45 // अथोपशमश्रेणीनां सम्भवसङ्ख्यामाह - आसंसारं चतुर्वार-मेव स्याच्छमनावली / जीवस्यैकभवे वार-द्वयं सा यदि जायते // 46 // व्याख्या - ‘शमनावली' शम श्रेणी 'जीवस्य' प्राणिनः 'आसंसारं' अनादिसान्तं संसारं यावत् 'चतुरं' वारचतुष्टयमेव स्यात्, सा चोपशमश्रेणिर्जीवस्य 'एकभवे' एकभवमध्ये 'यदि' कदाचिज्जायते, तदा 'वारद्वयम्', यदाह - "उवसमसेणिचउक्नं, जायइ जीवस्स आभवं नूणं / 'सा पुण दो एगभवे, खवगस्सेणी पुणो एगा // 769 // " (प्रवचनसारोद्धारः) 1. प्रवचनसारोद्धारे तु 'ता' इति पाठः /