________________ उपशान्तमोहाच्च्यवनम् 103 अथोपशान्तमोहगुणस्थाने यादृशं सम्यक्त्व-चारित्र-भाव-लक्षणं त्रयं भवति, तदाह - शान्तदृग्वृत्तमोहत्वा-दत्रौपशमिकाभिधे / स्यातां सम्यक्त्वचारित्रे, भावश्चोपशमात्मकः // 43 // व्याख्या - 'अत्र' उपशान्तगुणस्थानके दर्शनचारित्रमोहनीयस्योपशमात् 'सम्यक्त्वचारित्रे' औपशमिके एव भवतः / तथाऽत्र भावोऽप्युपशमात्मकः, न तु क्षायिकक्षायोपशमिकौ भावाविति // 43 / / अथोपशान्तमोहाच्च्यवनमाह - वृत्तमोहोदयं प्राप्यो-पशमी च्यवते ततः / अधःकृतमलं तोयं, पुनर्मालिन्यमश्नुते // 44 // व्याख्या - 'उपशमी' 'वृत्तमोहोदयं' चारित्रमोहनीयोदयं 'प्राप्य' 'ततः' उपशान्तमोहात् 'च्यवते' पुनर्मोहजनितप्रमादकालुष्ये पतति, युक्तोऽयमर्थः, यस्मात्कारणात् 'तोयं' जलं 'अधःकृतमलं' तलोपविष्टमलत्वादुपरि निर्मलमपि किमपि प्रेरणानिमित्तं प्राप्य ‘पुनः' 'मालिन्यमश्नुते' मलिनभावं प्राप्नुयादिति, यदाह - ___ "सुअकेवलि आहारग, उज्जुमई उवसंतगावि हु पमाया / हिंडंति भवमणंतं, तयणंतरमेव चउगइआ // 1 // " ( ) [ छाया - श्रुतकेवलिन आहारका, ऋजुमतयः उपशान्तका अपि च प्रमादात् / हिण्डन्ति भवमनन्तं, तदनन्तरमेव चतुर्गतिकाः // 1 // ] // 44 / / अथोपशमकानां गुणस्थानकेष्वारोहावरोहावाह - अपूर्वाद्यास्त्रयोऽप्यूज़-मेकं यान्ति शमोद्यताः / चत्वारोऽपि च्युतावाद्यं, सप्तमं वाऽन्त्यदेहिनः // 45 //