________________ 102 उपशमश्रेणिकः कथं मुक्तिगमनयोग्यः ? सव्वट्ठसिद्धनामे, उक्कोसठिईसु विजयमाईसुं / एगावसेसगब्भा, हवंति लवसत्तमा देवा // 2 // " ( ) [ छाया - सप्त लवा यदि आयुः, प्राभविष्यत् ततः खल्वसेत्स्यन्नेव / तावन्मानं नाभूत्, ततो लवसप्तमा जाताः // 1 // सर्वार्थसिद्धनाम्नि (विमाने ), उत्कृष्टस्थितिषु विजयादिषु / एकावशेषगर्भा, भवन्ति लवसप्तमा देवाः // 2 // ] आह - ननु उपशमश्रेणिकः कथं मुक्तिगमनयोग्य: स्यात् ? उच्यते - सप्त लवा मुहूर्त्तस्यैकादशभागरूपा भवन्ति, 'लवसत्तहत्तरीए होइ मुहत्तो' (छाया - लवसप्तत्या भवति मुहूर्तः / ) इति वचनात्, ततो लवसप्तकावशेषायुरेवोपशमकः खण्डश्रेणिक एव पराङ्मुखो वलति, सप्तमं गुणस्थानमागत्य पुनः क्षपकश्रेणिमारुह्य सप्तलवान्तरे च क्षीणमोहान्तं गत्वाऽन्तकृत्केवली भूत्वा मुक्ति गच्छतीत्यदोषः, तथा यस्तु पुष्टायुरपशमश्रेणी प्रतिपद्यते, स चाखण्डश्रेणिकः 'चारित्रमोहनं' चारित्रमोहनीयं कर्म 'उपशान्तान्तम्' एकादशगुणस्थानप्रान्तं 'नयेद्' उपशमं प्रापयेदिति // 41 // अथोपशमक एवापूर्वादिगुणस्थानकेषु यत्करोति, तदाह - अपूर्वादिद्वयैकैक-गुणेषु शमकः क्रमात् / करोति विंशतेः शान्ति, लोभाणुत्वं च तच्छमम् // 42 // व्याख्या - ‘शमकः' सप्तकोत्तरमोहसञ्चलनलोभवर्जप्रकृतिविंशतेरपूर्वानिवृत्तिलक्षणे गुणस्थानद्वये 'शान्ति' शमनं 'करोति', ततः क्रमेण सूक्ष्मसम्परायगुणस्थाने सञ्चलनलोभस्य सूक्ष्मत्वं करोति, ततः क्रमेणोपशान्तमोहगुणस्थानके 'तच्छमं' तस्य = सूक्ष्मलोभस्य शमं = सर्वथोपशमं करोति / तथाऽत्रोपशान्तमोहगुणस्थाने जीव एकप्रकृतेर्बन्धकः, एकोनषष्टिप्रकृतिवेदयिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति // 42 //