________________ उपशमश्रेण्यारोहयोग्यता 101 व्याख्या - अनोपशमकी मुनिराद्यशुक्लांशं = शुक्लध्यानस्य प्रथमं पादं वक्ष्यमाणलक्षणं ‘सन्ध्यायन्' 'स्वां श्रेणी' उपशमश्रेणी 'शमकः' 'श्रयेत्' प्रतिपद्येत, कथम्भूतः ? 'पूर्वज्ञः' पूर्वगतश्रुतधरः, 'शुद्धिमान्' निरतिचारचारित्रः ‘आद्यैस्त्रिभिः संहननैः' = वज्रऋषभनाराचऋषभनाराचनाराचलक्षणैर्युक्तः, एवंविधो मुनिरुपशमश्रेणी श्रयेदिति // 40 // अथोपशमश्रेण्यारूढस्याल्पाऽऽयुषो गतिं दीर्घायुषः कृत्यं चाऽऽह - श्रेण्यारूढः कृते काले-ऽहमिन्द्रेष्वेव गच्छति / पुष्टायुस्तूपशान्तान्तं, नयेच्चारित्रमोहनम् // 41 // व्याख्या - यो मुनिरल्पायुरुपशमश्रेणिमारोहति, स 'श्रेण्यारूढः' 'काले' आयुस्त्रुटिलक्षणे ‘कृते' सति 'अहमिन्द्रेष्वेव' सर्वार्थसिद्धादिदेवेष्वेव प्रयाति, परं यः प्रथमसंहननो भवति, अपरसंहननानामनुत्तरेषु गमनासम्भवात्, यदाह - "छेवद्वेण उ गम्मइ, चउरो जा कप्प कीलिआईसुं / चउसु दुदुकप्पवुड्डी, पढमेणं जाव सिद्धीवि // 162 // " (बृहत्सङ्ग्रहणी) [ छाया - सेवार्तेन तु गम्यते, चतुरो यावत् कल्पान् कीलिकादिषु / चतुर्पु द्विद्विकल्पवृद्धिः, प्रथमेन यावत्सिद्धिरपि // 162 // ] तथा यः सप्तलवाधिकायुष्को भवति स मुक्तिगमनयोग्यश्च भवति, स एव सर्वार्थसिद्धादौ याति, यदाह - "सत्तलवा जइ आउं, पहुप्पमाणं तओ हु सिज्झता / तत्तिअमित्तं न हुअं, तत्तो लवसत्तमा जाया // 1 //