________________ 100 अपूर्वकरणाद्यांशादेव श्रेणिद्वयारोहः 'मतम्', कस्मात् ? 'अपूर्वात्मगुणाप्तित्वात्' अपूर्वाणामात्मगुणानामाप्तिः सम्प्राप्तिस्तस्या भावोऽपूर्वात्मगुणाप्तित्वं तस्मात् / तथा दृष्टश्रुतानुभूतभोगाकाङ्क्षादिसङ्कल्पविकल्परहितनिश्चलपरमात्मैकतत्त्वैकाग्रध्यानपरिणतिरूपाणां 'भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदं' गुणस्थानं भवति, तच्चानिवृत्तिबादरं यदुच्यते तदत्र बादराणां कषायाणामप्रत्याख्यानादिद्वादशानां नवानां नोकषायाणां च शमकः शमनाय क्षपकः क्षपणाय प्रगुणो भवतीत्यतः कारणादनिवृत्तिबादरमित्युच्यते, तन्नवमं गुणस्थानम् / / 37 / / ___ तथा सूक्ष्मपरमात्मतत्त्वभावनाबलेन विंशतिप्रकृतिरूपे मोहे शान्ते क्षीणे वा सूक्ष्मखण्डीभूतस्य लोभस्यैकस्यास्तित्वं यत्र तत्सूक्ष्मकषायकं दशमं गुणस्थानं भवति / तथा उपशमकस्यैव परमोपशममूर्तेः निजसहजस्वभावसंविद्वलेन सकलमोहस्य 'शमनाद्' 'उपशान्तमोहम्' एकादशं गुणस्थानं भवति 11, तथा क्षपकस्यैव क्षपकश्रेणिमार्गेण दशमगुणस्थानादेव निष्कषायशुद्धात्मभावनाबलेन सकलमोहस्य क्षपणात्क्षीणमोहं द्वादशं गुणस्थानं भवति इति सामान्यार्थः // 38 / / अथापूर्वकरणाद्यांशादेव श्रेणिद्वयाऽऽरोहमाह - तत्रापूर्वगुणस्थाना-द्यांशादेवाधिरोहति / शमको हि शमश्रेणिं, क्षपकः क्षपकावलीम् // 39 // व्याख्या - 'तत्र' तस्मिन्नपूर्वगुणस्थानारोहसमयेऽपूर्वकरणस्यैवाद्यांशादेव 'शमकः' शमश्रेणिमारोहति, 'क्षपकः क्षपकावली' = क्षपकश्रेणिमधिरोहति // 39 // अथ प्रथममुपशमश्रेण्यारोहयोग्यतामाह - पूर्वज्ञः शुद्धिमान् युक्तो, ह्याद्यैः संहननैस्त्रिभिः / सन्ध्यायन्नाद्यशुक्लांशं, स्वां श्रेणी शमकः श्रयेत् // 40 //