________________ अपूर्वकरणादिक्षीणमोहान्तपञ्चगुणस्थानानां सामान्यस्वरूपम् 99 अष्टविधं कर्मरजः, बहुकैरपि भवैः सञ्चितं यस्मात् / तप:संयमेन क्षालयति, तस्मात्तद्भावतस्तीर्थम् // 116 // ] अन्यच्च - "रुद्धे प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्रलयमुपगतेऽन्तर्विकल्पेन्द्रजाले। भिन्ने मोहान्धकारे प्रसरति महसि क्वापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशम् // 1 // " ( ) इति / तथाऽप्रमत्तगुणस्थानस्थो जीवः शोकारत्यस्थिराशुभायशोऽसातव्यवच्छेदादाहारकद्विकबन्धाच्चैकोनषष्टेर्बन्धको भवति, तथा च यदि देवायुरपि न बध्यते, तदाऽष्टपञ्चाशतो बन्धकः, तथा स्त्यानद्धित्रिकाहारकद्विकोदयव्यवच्छेदात् षट्सप्ततेर्वेदयिता अष्टत्रिंशदधिकशतसत्ताको भवति // 36 // // इत्यप्रमत्तगुणस्थानकं सप्तमम् // अथापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहाख्यानां पञ्चानामपि गुणस्थानानां नामार्थं प्रथमं सामान्येन श्लोकद्वयेनाऽऽह - अपूर्वात्मगुणाप्तित्वा-दपूर्वकरणं मतम् / भावानामनिवृत्तित्वा-दनिवृत्तिगुणास्पदम् // 37 // अस्तित्वात्सूक्ष्मलोभस्य, भवेत्सूक्ष्मकषायकम् / शमनाच्छान्तमोहं स्यात्, क्षपणाक्षीणमोहकम् // 38 // व्याख्या - य एवाप्रमत्तसंयतः सप्तमगुणस्थानवर्ती दर्शितः, स एव सञ्चलनकषायाणां नोकषायाणां वाऽत्यन्तं मन्दोदये सति प्राप्तापूर्वपरमाह्लादैकमयं करणं परिणामरूपं यत्र तदपूर्वकरणनाम गुणस्थानमष्टमं