________________ द्रव्यतीर्थं भावतीर्थञ्च 'आवश्यकानि' सामायिकादीनि षडपि 'नो सन्ति' न विद्यन्ते, कोऽर्थः ? सामायिकादीनां षण्णामप्यावश्यकानां व्यवहारक्रियारूपाणामत्र गुणस्थाने निवृत्तिः, न तु नैश्चयिकी सामायिकादीनां निवृत्तिः, तेषां ह्यात्मगुणत्वात्, ‘आया सामाइए, आया सामाइअस्स अट्टे' [ छाया - आत्मा सामायिकम्, आत्मा सामायिकस्यार्थः / ] इत्याद्यागमवचनादिति / कुतः कारणादावश्यकानि नो सन्ति ? 'यतो' यस्मात्कारणाद् अत्र 'सन्ततध्यानसद्योगात्' निरन्तरसद्ध्यानसद्भावात् 'स्वाभाविकी' सहजनितैव सङ्कल्पविकल्पमालाऽभावादात्मैकस्वभावरूपा निर्मलता भवति, अत्र गुणस्थाने वर्तमानो जीवो भावतीर्थावगाहनात्परमां शुद्धिमाप्नोत्येव, यदाह - "दाहोवसमं तण्हाइ, छेअणं मलपवाहणं चेव / तिहिँ अत्थेहिँ निउत्तं, तम्हा तं दव्वओ तित्थं // 114 // कोहम्मि उ निग्गहिए, दाहस्सोवसमणं हवइ तित्थं / लोहंमि उ निग्गहिए, तण्हाए छेअणं जाण // 115 // अट्टविहं कम्मरयं, 'बहुएहिँ भवेहिँ संचिअं जम्हा / तवसंजमेण धोअइ, तम्हा तं भावओ तित्थं // 116 // " (संबोधसत्तरी) [ छाया - दाहोपशमः तृष्णाया-श्छेदनं मलप्रवाहणं चैव / त्रिभिरथैर्नियुक्तं, तस्मात्तद्रव्यतस्तीर्थम् // 114 // क्रोधे तु निगृहीते, दाहस्योपशमनं भवति तीर्थम् / लोभे तु निगृहीते, तृष्णायाश्छेदनं जानीहि // 115 // 1. संबोधसत्तरिग्रन्थे तु ‘होई' इति पाठः / 2. संबोधसत्तरिग्रन्थे तु ‘बहुभवेहिं उ' इति पाठः /