________________ अप्रमत्तगुणस्थाने ध्यानसम्भवः 97 "मैत्र्यादिचतुर्भेदं य-द्वाऽऽज्ञादिचतुर्विधम् / पिण्डस्थादि चतुर्धा वा, धर्मध्यानं प्रकीर्तितम् // 1 // " ( ) तत्र - "मैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत् / धर्मध्यानमुपस्कर्तुं, तद्धि तस्य रसायनम् // 443 // __ (योगशास्त्रम्) आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् / इत्थं वा ध्येयभेदेन, धर्मध्यानं प्रकीर्तितम् // 875 // " (योगशास्त्रान्तरश्लोकः) इति पूर्वमेव प्रदर्शितम् / "स्यात्पिण्डस्थं ध्यानमात्माङ्गसङ्गि, स्वान्तं वाणीव्यापरूपं पदस्थम् / रूपस्थं सङ्कल्पितात्मस्वरूपं, रूपातीतं कल्पनामुक्तमेव // 1 // " ( ) तदेवंविधं जिनोदितं धर्मध्यानं 'अत्र' अप्रमत्तगुणस्थाने 'मुख्यवृत्त्या' प्रधानतया ‘भवति', तथा 'रूपातीततया' कृत्वा 'शुक्लमपि' शुक्लध्यानमपि 'अंशमात्रतः' अत्र गौणतया स्यादेवेति // 35 // अथावश्यकानामभावेऽपि शुद्धिमाह - इत्येतस्मिन् गुणस्थाने, नो सन्त्यावश्यकानि षट् / सन्ततध्यानसद्योगा-च्छुद्धिः स्वाभाविकी यतः // 36 // व्याख्या - इतीति पूर्वोक्तस्वरूपे 'एतस्मिन्' अप्रमत्तगुणस्थाने 1. योगशास्त्रन्तरश्लोकेषु तु 'धर्म्य ध्यानं चतुर्विधम्' इति पाठः /