________________ त्रिविधा योगिनः एवंविधो 'मुनिपुङ्गवः', 'सप्तकोत्तरमोहस्य' पूर्वोक्तसम्यक्त्वमिश्रमिथ्यात्वानन्तानुबन्धिचतुष्टयलक्षणसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य शमनोन्मुखः 'प्रशमाय' क्षपणोन्मुखः 'क्षयाय वा' 'सद्ध्यानसाधनारम्भं' निरालम्बध्यानप्रवेशप्रारम्भं 'कुरुते', निरालम्बध्याने प्रवेशे हि योगिनस्त्रिविधा भवन्ति यथा - प्रारम्भकाः, तन्निष्ठाः, निष्पन्नयोगाश्च / यदाह - “सम्यग्नैसर्गिकी वा विरतिपरिणतिं प्राप्य सांसर्गिकी वा, क्वाप्येकान्ते निविष्टाः कपिचपलचलन्मानसस्तम्भनाय / शश्वन्नासाग्रपालीघनघटितदृशो धीरवीरासनस्था, ये निष्कम्पाः समाधेर्विदधति विधिनाऽऽरम्भमारम्भकास्ते // 1 // कुर्वाणो मरुदासनेन्द्रियमनःक्षुत्तर्षनिद्राजयं, योऽन्तर्जल्पनिरूपणाभिरसकृत्तत्वं समभ्यस्यति / सत्त्वानामुपरि प्रमोदकरुणामैत्रीभृशं मन्यते, ध्यानाधिष्ठितचेष्टयाऽभ्युदयते तस्येह तन्निष्ठता // 2 // उपरतबहिरन्तर्जल्पकल्लोलमाले, लसदविकलविद्यापद्मिनीपूर्णमध्ये / सततममृतमन्तर्मानसे यस्य हंसः, पिबति निरुपलेपः स्यात्तु निष्पन्नयोगी // 3 // " ( ) // 33-34 // अथाप्रमत्तगुणस्थाने ध्यानसम्भवमाह - धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् / रूपातीततया शुक्ल-मपि स्यादंशमात्रतः // 35 // व्याख्या - 'जिनोदितं' जिनप्रणीतं 'धर्मध्यानं' मैत्र्यादिभेदभिन्नमनेकविधम्, यदाह -