________________ अप्रमत्तस्य सद्ध्यानारम्भकत्वम् नाभिधानक्रोधादीनाम् उपलक्षणत्वान्नोकषायाणां च / अयमर्थः - सञ्चलनकषायाणां नोकषायाणां च यथा यथा मन्दोदयो भवति, तथा तथा साधुरप्रमत्तो भवति / यदाह - "यथा यथा न रोचन्ते, विषयाः सुलभा अपि / तथा तथा समायाति, संवित्तौ तत्त्वमुत्तमम् // 1 // यथा यथा समायाति, संवित्तौ तत्त्वमुत्तमम् / तथा तथा न रोचन्ते, विषयाः सुलभा अपि // 2 // " ( ) // 32 // अथ यथाऽप्रमत्तस्थ एव मोहनीयकर्मोपशमक्षपणनिपुणः सद्ध्यानारम्भकत्वं कुरुते, तथा श्लोकद्वयेनाऽऽह - नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः / ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः // 33 // सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा / सध्यानसाधनारम्भं, कुरुते मुनिपुङ्गवः // 34 // // युग्मम् // व्याख्या - नष्टाशेषप्रमादो = निर्धाटिताखिलप्रमादः आत्मा = जीवो यस्यासौ 'नष्टाशेषप्रमादात्मा', व्रतानि = महाव्रतादीनि, शीलगुणाः = अष्टादशसहस्रशीलाङ्गलक्षणास्तैरन्वितः = संयुक्तो 'व्रतशीलगुणान्वितः', ज्ञानं = सदागमाभ्यासलक्षणम्, ध्यानम् = एकाग्रतारूपम् तद् ज्ञानं च ध्यानं च धनं सर्वस्वं यस्यासौ 'ज्ञानध्यानधनः', अत एव 'मौनी' मौनवान्, यतो मौनवानेव ध्यानधनः स्यात्, यदाह - "तं नमत गृहीताखिलकालत्रयगतजगत्त्रयव्याप्तिः / यत्रास्तमेति सहसा, सकलोऽपि हि वाक्परिस्पन्दः // 1 // " ( ) ततो ज्ञानध्यानधनो मौनी 'शमनाय' शमनार्थं 'क्षपणाय' क्षपणार्थं वा 'उन्मुखः' सम्मुखः, कृतोद्यम इत्यर्थः, 'शमनक्षपणोन्मुखः',