________________ 94 सप्तममप्रमत्तगुणस्थानकम् ये ते योगग्रहग्रस्ताः, सदाचारपराङ्मुखाः / एवं तेषां न योगोऽपि, न लोकोऽपि जडात्मनाम् // 2 // " ( ) इति // 30 // तस्माद् यत्करणीयम्, तदाह - तस्मादावश्यकैः कुर्यात्, प्राप्तदोषनिकृन्तनम् / यावन्नाप्नोति सद्ध्यान-मप्रमत्तगुणाश्रितम् // 31 // व्याख्या - 'तस्मात्' पूर्वोक्तहेतुकारणात् साधुस्तावत् ‘प्राप्तदोषनिकृन्तनं' दैवसिकाद्यासेवितातिचारच्छेदनं 'आवश्यकैः' सामायिकादिभिरेव 'कुर्यात्' करोतु, 'यावदप्रमत्तगुणाश्रितं' अप्रमत्तगुणस्थानसाध्यं सद्ध्यानं' निरालम्बध्यानं 'नाप्नोति' नासादयतीत्यर्थः / तथा प्रमत्तगुणस्थानस्थो जीवः प्रत्याख्यानकबन्धव्यवच्छेदात् 63 त्रिषष्टेर्बन्धकः, तथा तिर्यग्गतितिर्यगायुर्नीचैर्गोत्रोद्योतप्रत्याख्यानरूपाष्टप्रकृत्युदयव्यवच्छेदादाहारकद्वयोदयाच्चैकाशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति // 31 / / // इति प्रमत्तगुणस्थानकं षष्ठम् // अथाप्रमत्तगुणस्थानमाह - चतुर्थानां कषायाणां, जाते मन्दोदये सति / भवेत्प्रमादहीनत्वा-दप्रमत्तो महाव्रती // 32 // व्याख्या - महाव्रतानि विद्यन्ते यस्यासौ 'महाव्रती' साधुः, 'अप्रमत्तो' अप्रमत्तगुणस्थानस्थो भवति, कस्मात् ? 'प्रमादहीनत्वात्' पूर्वोक्तपञ्चप्रकारप्रमादरहितत्वात्, क्व सति ? 'मन्दोदये जाते सति' मन्दः = अतीव्रविपाकः उदयः = अस्तित्वमात्रलक्षणो यत्रासौ मन्दोदयस्तस्मिन्मन्दोदये केषाम् ? 'चतुर्थानां कषायाणां' सज्वल