________________ मिष्टान्नाभिलाषिदृष्टान्तः "जइ जिणमयं पवज्जह, ता मा ववहारनिच्छए मुअह / ववहारनउच्छेए, तित्थुच्छेओ जओ भणिओ // 228 // " (पुष्पमाला) [ छाया - यदि जिनमतं प्रपद्यध्वं, तन् मा व्यवहारनिश्चयौ मुञ्चत / व्यवहारनयोच्छेदे, तीर्थोच्छेदो यतो भणितः // 228 // ] दृष्टान्तश्चात्र - यथा कश्चित्पुरुषः स्वस्मिन् गृहे सदैव कदन्नमात्रमास्वादयन् केनापि निमन्त्रितस्तस्य गृहेऽभुक्तपूर्वं मिष्टान्नाहारं भुक्तवान्, ततोऽसौ तदास्वादरसलोलुपतया स्वगृहकदन्नं निरास्वादमिति कृत्वा न भुङ्क्ते, तमेवातिदुष्प्रापं मिष्टान्नमेवाभिलषति, ततः स्वगृहे कदन्नादिकमभुञ्जन् मिष्टान्नं चाप्राप्नुवन्नुभयाभावतया सीदति, तथाऽयमपि कदाग्रहगृहीतो जीवः प्रमत्तगुणस्थानसाध्यं स्थूलमात्रपुण्यपुष्टिकारणं षडावश्यकादिककष्टक्रियाकर्माकुर्वाणः कदाचित् अप्रमत्तगुणस्थानलभ्यं निर्विकल्पमनोजनितसमाधिरूपनिरालम्बध्यानांशममृताहारकल्पं लब्धवान्, ततस्तज्जनितपरमानन्दसुखास्वादतया प्रमत्तगुणस्थानगतं षडावश्यकादिकष्टक्रियाकर्म कदन्नकल्पं मन्वानो न सम्यक् साधयति, मिष्टान्नाहारकल्पं निरालम्बध्यानं तु प्रथमसंहननाद्यभावान्नित्यं नाप्नोति, ततः षडावश्यकमकुर्वन् निरालम्बध्यानमप्राप्नुवंश्च स कदाग्रहगृहीतो जीवोऽप्युभयभ्रष्टतया ध्रुवं सीदति, तथा चाग्रेतनैर्विद्वद्भिः परमसंवेगगिरिशिखरमारूढ़निरालम्बध्यानसाधनमनोरथा एव कृताः श्रूयन्ते, तथा च पूर्वमहर्षयः - "चेतोवृत्तिनिरोधनेन करणग्रामं विधायोद्वसं, तत्संहृत्य गतागतं च मरुतो धैर्यं समाश्रित्य च / पर्यङ्केन मया शिवाय विधिवच्छून्यैकभूभृद्दरीमध्यस्थेन कदाचिदर्पितदृशा स्थातव्यमन्तर्मुखम् // 1 //