________________ प्रमत्तसंयतगुणस्थाने निरालम्बनध्यानस्य निषेधः अनाद्यनन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः / आकृति चिन्तयेद्यत्र, संस्थानविचयः स तु // 879 // " (योगशास्त्रान्तरश्लोकाः) इत्याज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता, अत्र सप्रमादत्वान्न मुख्यतेति // 28 // अथ ये प्रमत्तस्था निरालम्बनमपि धर्मध्यानं समीहन्ते, तान् प्रति तन्निषेधमाह - यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति / धर्मध्यानं निरालम्ब-मित्यूचुर्जिनभास्कराः // 29 // व्याख्या - 'जिनभास्करा' जिनसूर्या 'इत्यूचुः' इत्येतदेव कथयन्ति स्म, किं तद् ? इत्याह - यः साधुर्यावत्प्रमादसंयुक्तो भवति, 'तावत्तस्य' साधोर्गोचरे 'निरालम्बं' ध्यानं न तिष्ठतीति निश्चयः, यतोऽत्र प्रमत्तगुणस्थाने मध्यमधर्मध्यानस्यापि गौणतैवोक्ता, न तु मुख्यता, ततोऽत्र निरालम्बनोत्कृष्टधर्मध्यानस्यासम्भव एव // 29 / / अथ योऽमुमेवार्थं न मन्यते, तं प्रत्याह - प्रमाद्यावश्यकत्यागा-न्निश्चलं ध्यानमाश्रयेत् / योऽसौ नैवागमं जैनं, वेत्ति मिथ्यात्वमोहितः // 30 // व्याख्या - ‘यः' साधुः ‘प्रमादी' प्रमादयुक्तोऽपि 'आवश्यकत्यागात्' सामायिकादिषडावश्यकसाधकानुष्ठानपरिहारात् 'निश्चलं' निरालम्बं 'ध्यानमाश्रयेत्', 'असौ' साधुः 'मिथ्यात्वमोहितो' मिथ्याभावमूढः सन् ‘जैनागमं' श्रीसर्वज्ञप्रणीतसूत्रं, नैव वेत्तीति, यतोऽसौ व्यवहारं न करोति निश्चयं नाप्नोति, जिनागमविद्भिस्तु व्यवहारपूर्वक एव निश्चयः साध्यः, यदागमः -