________________ 89 प्रमत्तसंयतगुणस्थाने ध्यानसम्भवः सञ्चलनाख्यकषायाणां 'तीव्रोदये सति', अयमर्थः - यदा मुनेर्महाव्रतिनोऽपि सञ्चलनकषायस्तीवो भवति तदाऽवश्यमन्तर्मुहूर्तं कालं यावत्सप्रमादत्वात् प्रमत्त एव भवति, यदा अन्तर्मुहूर्त्तादुपरि सप्रमादो भवति तदा प्रमत्तगुणस्थानादधस्तात्पतति, यदा त्वन्तर्मुहूर्तादूर्ध्वमपि प्रमादरहितो भवति, तदा पुनरपि अप्रमत्तगुणस्थानमारोहतीति // 27 // अथ प्रमत्तसंयतगुणस्थाने ध्यानसम्भवमाह - अस्तित्वान्नोकषायाणा-मत्रातस्यैव मुख्यता / आज्ञाद्यालम्बनोपेत-धर्मध्यानस्य गौणता // 28 // व्याख्या - 'अत्र' प्रमत्तगुणस्थानके 'मुख्यता' मुख्यत्वं 'आर्त्तस्य' ध्यानस्यैव, उपलक्षणत्वाद् रौद्रस्यापि, कस्मात् ? 'नोकषायाणां' हास्यषट्कादीनां 'अस्तित्वाद्' विद्यमानत्वात्, तथा 'आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता' आज्ञादीन्याज्ञाऽपायविपाकसंस्थानविचयलक्षणान्यालम्बनानि आज्ञाद्यालम्बनानि, तैरुपेतं च तद्धर्मध्यानं चाज्ञाद्यालम्बनोपेतधर्मध्यानं तस्य, अत्र धर्मध्यानमपि चतुष्पादम्, यथा - "आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् / इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम् // 875 // आज्ञां यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् / तत्त्वतश्चिन्तयेदर्थान्, तदाज्ञाध्यानमुच्यते // 876 // रागद्वेषकषायाद्यै-र्जायमानान् विचिन्तयेत् / यत्रापायांस्तदपाय-विचयध्यानमुच्यते // 877 // प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः / चिन्त्यते चित्ररूपः स, विपाकविचयो मतः // 878 //