________________ 86 देशविरतौ ध्यानसम्भवः "छावलियं 'सासायण, समहिअतित्तीससागर चउत्थं / देसूणपुव्वकोडी, पंचमगं तेरसं च 'पुणो // 1308 // " (प्रवचनसारोद्धारः) [छाया - षडावली: सास्वादनं, समधिकत्रयस्त्रिंशत्सागराणि चतुर्थम् / देशोनपूर्वकोटी, पञ्चमकं त्रयोदशं च पुनः // 1308 // ] // 24 // अथ देशविरतौ ध्यानसम्भवमाह - आर्तं रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् / षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसम्भवम् // 25 // व्याख्या - 'अत्र' देशविरतिगुणस्थानके अनिष्टयोगातम्, इष्टवियोगार्त्तम्, रोगातम्, निदानार्त्तमिति चतुष्पादमार्तध्यानम् / रौद्रध्यानं च हिंसानन्दरौद्रम्, मृषावादानन्दरौद्रम्, चौर्यानन्दरौद्रम्, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च 'मन्दं' भवति, कोऽर्थः ? यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथाऽऽर्तरौद्रध्याने मन्दे मन्दतरे च स्याताम् / तुः = पुनर्धर्मध्यानं यथा यथा देशविरतिरधिकाऽधिका स्यात्तथा तथा 'मध्यम' यावदधिकाधिकं भवति, न तूत्कृष्टं धर्मध्यानं स्यादित्यर्थः, यदि पुनस्तत्राप्युत्कृष्टं धर्मध्यानं परिणमति, तदा भावतः सर्वविरतिरेव सञ्जायते, कथम्भूतं धर्मध्यानम् ? 'षट्कर्मप्रतिमाश्राद्धव्रतपालनसम्भवं' षट्कर्माणि देवपूजादीनि, यदुच्यते - "देवपूजा, गुरूपास्तिः, स्वाध्यायः संयमस्तपः / दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने // 1 // " (उपदेशसारः 23, उपदेशतरङ्गिणी 98) 1. प्रवचनसारोद्धारे तु 'सासाणं' इति पाठः / 2. प्रवचनसारोद्धारे तु 'पुढो' इति पाठः /