________________ 85 जघन्यमध्यमोत्कृष्टरूपा देशविरतिः [छाया - आकुट्टीस्थूलहिंसादि-मद्यमांसादित्यागात् / जघन्यः श्रावको भवति, यो नमस्कारधारकः // 405 // ] तथा मध्यमा विरतिरक्षुद्रादिभिर्यायसम्पन्नविभव इत्यादिभिर्वा धर्मयोग्यतागुणैराकीर्णस्य गृहस्थोचितषट्कर्मनिरतस्य द्वादशव्रतपालकस्य सदाचारस्य भवति, यदाह - "धम्मजुग्गगुणाइण्णो, छक्कम्मो बारसव्वओ / गिहत्थो य सयायारो, सावओ होइ मज्झिमो // 406 // " (गाथासहस्त्री) [ छाया - धर्मयोग्यगुणाकीर्णः, षट्कर्मा द्वादशव्रतः / गृहस्थश्च सदाचारः, श्रावको भवति मध्यमः // 406 // ] तथा उत्कृष्टा विरतिः सच्चित्ताहारवर्जकस्य सदैव कृतैकभक्तस्यानिन्द्यब्रह्मव्रतपालकस्य महाव्रताङ्गीकारस्पृहयालुतया त्यक्तगृहद्वन्द्वस्य श्रमणोपासकस्य भवति, यदाह - "उक्कोसेणं तु सड्ढो उ, सच्चित्ताहारवज्जओ / एगासणगभोई अ, बंभयारी तहेव य // 407 // " (गाथासहस्त्री) [ छाया - उत्कृष्टेन तु श्राद्धस्तु, सचित्ताहारवर्जकः / एकाशनकभोजी च, ब्रह्मचारी तथैव च // 407 // ] इत्येवंविधा त्रिविधाऽपि देशविरतिरेव 'यत्र' भवति 'हि' स्फुटं 'तत्' 'श्राद्धत्वं' श्रावकत्वं स्यात्, तत् कथम्भूतम् ? देशोना पूर्वकोटिगुर्वी स्थितिर्यत्र तत् 'देशोनपूर्वकोटिगुरुस्थिति', यद्भाष्यम् -