________________ पञ्चमं देशविरतिगुणस्थानकम् "जो अविरओऽवि संघे, भत्तिं तित्थुण्णइं सया कुणई / अविरयसम्मद्दिट्ठी, पभावगो सावगो सोवि // 404 // " (गाथासहस्री) [छाया - योऽविरतोऽपि सङ्के, भक्ति तीर्थोन्नतिं सदा करोति / अविरतिसम्यग्दृष्टिः, प्रभावकः श्रावकः सोऽपि // 404 // ] तथाऽविरतसम्यग्दृष्टिगुणस्थानस्थो जीवस्तीर्थकृदायुर्द्विकस्य बन्धात् सप्तसप्ततेर्बन्धकः, तथा मिश्रोदयव्यवच्छेदादानुपूर्वीचतुष्कसम्यक्त्वोदयाच्च चतुरुत्तरशतस्य वेदयिता, तथा अष्टत्रिंशदधिकशतसत्ताको भवति, उपशमकस्तु चतुर्थादेकादशान्तं सर्वत्राष्टाचत्वारिंशदधिक // इत्यविरतसम्यग्दृष्टिगुणस्थानं चतुर्थम् // अथ पञ्चमगुणस्थानस्वरूपमाह - प्रत्याख्यानोदयाद्देश-विरतिर्यत्र जायते / तच्छ्राद्धत्वं हि देशोन-पूर्वकोटिगुरुस्थिति // 24 // व्याख्या - जीवस्य सम्यक्त्वावबोधजनितवैराग्योपचयात्सर्वविरतिवाञ्छां कुर्वतोऽपि सर्वविरतिघातकप्रत्याख्यानावरणाख्यकषायाणामुदयात्सर्वविरतिप्रतिपत्तिशक्तिर्न समुत्पद्यते, किन्तु जघन्यमध्यमोत्कृष्टरूपा देशविरतिरेव जायते / तत्र जघन्या विरतिराकुट्टिस्थूलहिंसादित्यागान्मद्यमांसादिपरिहारात्परमेष्ठिनमस्कृतिस्मृतिनियममात्रधारणात्, यदाह - "आउट्टिथूलहिंसाइ-मज्जमंसाइचायओ / जहन्नो सावओ होइ, जो नमुक्कारधारओ // 405 // " (गाथासहस्री)