________________ अविरतगुणस्थानतिनो जीवस्य कृत्यम् [छाया - अपूर्वकृतत्रिपुञ्जो, मिथ्यात्वमुदीर्णं क्षपयित्वा अनुदीर्णम् / उपशमय्य अनिवृत्ति-करणतः परं क्षयोपशमी // 16 // ] ततोऽसौ 'क्षायोपशमिकी दृष्टिः' समुत्पन्ना सती जीवानां 'नरामरसम्पदे' देवमानवद्धये 'स्याद्' भवेत् / तथाऽपूर्वकरणेनैव कृतत्रिपुञ्जस्य जीवस्य चतुर्थगुणस्थानादारभ्य क्षपकत्वे प्रारब्धेऽनन्तानुबन्धिचतुष्कस्य मिथ्यात्वमिश्रसम्यक्त्वरूपपुञ्जत्रयस्य च क्षये क्षायिकं सम्यक्त्वं भवति, ततोऽसौ क्षायिकी' दृष्टिस्तु पुनरबद्धायुष्कस्य तत्रैव 'भवे' 'मुक्तये' मोक्षाय स्यात्, बद्धायुष्कस्य तु जीवस्य तृतीये भवे असङ्ख्यातजीविनां प्रायोग्यबद्धायुष्कस्य चतुर्थे भवे मुक्तये स्यात् / तथा चाह - "मिच्छाइखए खइओ, सो सत्तगि खीणि ठाइ बद्धाऊ / चउतिभवभाविमुक्खो, तब्भवसिद्धी अ इअरो अ // 18 // " __ (सम्यक्त्वस्वरूपकुलकम्) [छाया - मिथ्यात्वादौ क्षीणे क्षायिकः,स सप्तके क्षीणे तिष्ठति बद्धायुष्कः / चतुस्त्रिभवभाविमोक्ष-स्तद्भवसिद्धिश्च इतरश्च // 18 // ] / / 22 / / अथाविरतगुणस्थानवर्तिनो जीवस्य कृत्यमाह - देवे गुरौ च सङ्के च, सद्भक्ति शासनोन्नतिम् / अव्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये // 23 // व्याख्या - 'तुर्ये' चतुर्थे 'गुणालये' गुणस्थाने अविरतसम्यग्दृष्टिलक्षणे वर्तमानो जीवः 'अव्रतो' व्रतनियमरहितो 'देवे' देवविषये, 'गुरौ' गुरुविषये, 'सङ्के' श्रीसङ्घविषये 'सद्भक्ति' पूजाप्रणतिवात्सल्यादिरूपां करोति, तथा 'शासनोन्नति' शासनप्रभावनां 'करोत्येव', प्रभावकश्रावकत्वात् / यदाह -