________________ 87 श्राद्धस्यैकादशप्रतिमा द्वादशव्रतानि च प्रतिमा अभिग्रहविशेषा दर्शनप्रतिमाद्या एकादश, यदाह - "दंसणवयसामाइअ-पोसहपडिमा अबंभसच्चित्ते / आरंभपेसउद्दिट्ट-वज्जए समणभूए अ // 980 // " (प्रवचनसारोद्धारः) [ छाया - दर्शनव्रतसामायिक-पौषधप्रतिमाऽब्रह्मसच्चित्तानि / __ आरम्भप्रेषोद्दिष्ट-वर्जकः श्रमणभूतश्च // 980 // ] श्राद्धव्रतान्यणुव्रतादीनि द्वादश, यदाह - "पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव / दिसिभोगदंडसमईअ-देसे 'पोसह तह विभागे // 1 // " (सम्बोधप्रकरणम् 529, हितोपदेशमाला 412, दर्शनशुद्धिप्रकरणम् 63, श्रावकव्रतभङ्गप्रकरणम् 31, श्रावकव्रतकुलकम् 3) [ छाया - प्राणिवधमृषावादौ, अदत्तमैथुनपरिग्रहाश्चैव / दिग्भोगदण्डसामायिक-देशपौषधानि तथा विभागः // 1 // ] षट्कर्मादिविस्तरो ग्रन्थान्तरादवसेयः, तथैतेषां पालनात् सम्भवतीति षट्कर्मप्रतिमाश्राद्धव्रतपालनसम्भवं धर्मध्यानं मध्यममिति / तथा देशविरतिगुणस्थानस्थो जीवोऽप्रत्याख्यानकषायचतुष्कनरत्रिकाद्यसंहननौदारिकद्वयरूपप्रकृतिदशकबन्धव्यवच्छेदात् सप्तषष्टेबन्धकः, तथाऽप्रत्याख्यानकषायनरतिर्यगानुपूर्वीद्वयनरकत्रिकदेवत्रिकवैक्रियद्वयदुर्भगानादेयायशोरूपसप्तदश(१७)प्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति // 25 // // इति देशविरतिगुणस्थानकं पञ्चमम् // 1. सम्बोधप्रकरणादिग्रन्थपञ्चकेषु तु 'तह पोसहविभागे' इति पाठः /