________________ पिपीलिकोपमानेन करणत्रययोजना भग्नः स्थितिपरिवृद्धि-र्गृहीतः पुनर्ग्रन्थिको गतस्तृतीयः / सम्यक्त्वपुरं एवं, योजयेत् त्रीणि करणानि // 1214 // ] अथवा पिपीलिकोपमानेन करणत्रययोजना - "खिइसाभाविअगमणं, थाणूसरणं तओ समुप्पयणं / 'ठाणं थाणुसिरे वा, ओसरणं वा मुइंगाणं // 1208 // खिइगमणं पिव पढम, थाणूसरणं व करणमप्पुव्वं / उप्पयणं पिव तत्तो, जीवाणं करणमनिअट्टी // 1209 // थाणूव्व गंठिदेसो, गठियसत्तस्स तत्थवत्थाणं / ओयरणं पिव तत्तो, पुणोवि 'कम्मट्ठिइविवड्डी // 1210 // " (विशेषावश्यकभाष्यम् ) इत्यादि / [छाया - क्षितिस्वाभाविकगमनं, स्थाणूत्सरणं ततः समुत्पतनम् / स्थानं स्थाणुशिरसि वा, अपसरणं वा पिपीलिकानाम् // 1208 // क्षितिगमनवत् प्रथम, स्थाणूत्सरणवत् करणमपूर्वम् / उत्पतनवत् ततः, जीवानां करणमनिवृत्ति // 1209 // स्थाणुवत् ग्रन्थिदेशो, ग्रन्थिकसत्त्वस्य तत्रावस्थानम् / अवतरणमिव ततः, पुनरपि कर्मस्थितिविवृद्धिः // 1210 // ] ततो जीवो यथाप्रवृत्तिकरणेन ग्रन्थिदेशं सम्प्राप्यापूर्वकरणेन ग्रन्थिभेदं विधाय कश्चिन्मिथ्यात्वपुद्गलराशिं विभज्य मिथ्यात्वमिश्रसम्यक्त्वरूपं 1. विशेषावश्यकभाष्ये तु 'थाणं' इति पाठः / 2. विशेषावश्यकभाष्ये तु ‘ओरुहणं' इति पाठः / 3. विशेषावश्यकभाष्ये तु 'करणमनियट्टि' इति पाठः / 4. विशेषावश्यकभाष्ये तु ‘गंठिदेसे' इति पाठः / 5. विशेषावश्यकभाष्ये तु 'कम्मट्ठिइविवुड्डी' इति पाठः /