________________ 188 श्रीयतिदिनचर्या अवचूर्णियुता उक्ताः पिण्डदोषाः, अथ पिण्डग्रहणलाभमाह - पिंडो देहो भन्नइ तस्स उवटुंभकारणं दव्वं / एगमणेगं पिंड असणाइ पाउंछणाईयं // 18 // पिण्ड:-पिण्डशब्देन देह:-कायो भण्यते-कथ्यते तस्य-देहस्योपष्टम्भकारणे-आधारनिमित्ते पिण्डं द्रव्यं स्यात्, तत् पिण्डद्रव्यमेकमनेकं च, यथा एकमशनादि अनेकं पादप्रोञ्छनादि // 98 // तदेकमनेकं विवृणोति - असणाईया चउरो पाउंछण वत्थ पत्तकंबलया / सिज्जायरपिंडो उण न कप्पए रायपिंडव्व // 19 // हणणं पयणं कयणं न कुणइ न य कारवेइ अन्नपि / अणुजाणइ न कुणंतं एया नव हुँति कोडीउ // 100 // सुविसुद्धाहारेणं साहूणं निच्चमेव उववासो / देसूणपुव्वकोडिंपि पालयंताण सामन्नं // 101 // अथ तत्र पिण्डे नव कोटयो भवन्ति, तास्त्विमा वक्ष्यमाणाः, हननं वधः पचनं पाकः क्रीतं-मूल्यगृहीतं आत्मना न करोति अपरेण न कारयति अन्यं कुर्वन्तं नानुज्ञापयति, एकस्मिन् हनने त्रयः करणकारणानुमतिरूपाः, एवं पचने क्रीतेऽपि, मीलिताः नव कोटयो भवन्ति, यदाहुः"एए पुव्वाभिहिया दोसा सव्वेवि नवसु कोडीसु / भेयप्पभेयजुत्ता संखेवेणं अवयरंति // 1 // " // 99-100 // निर्दोषपिण्डग्रहणे साधूनां यो लाभस्तमाह - सुतरां-अतिशयेन विशुद्धो-निर्दोषः सुविशुद्धः एवम्भूतो य आहारः प्राणाधारस्तेन साधूनां