________________ श्रीयतिदिनचर्या अवचूर्णियुता 173 तत्र आधाकर्मादयः षोडशोद्गमदोषाः, यथा आधाकर्म-आधाय साधून् षड्जीवनिकायविराधनादिना पापक्रिया, निरुक्तात् यलोपः 1 द्वितीयमौद्देशिकं तदेवं-यावन्तिकादीनुद्दिश्य कृतमौदेशिकं 2 तृतीयं पूतिर्वा, अपवित्रकर्मकरणमित्यर्थः तद्योगात् पूतिकर्म, चः समुच्चये 3 चतुर्थं मिश्रजातं - किञ्चिद् गृहियोग्यं किञ्चित् साधूनामपि 4 पञ्चमं स्थापना, साधुदानाय पृथग्भाजने स्थाप्यते 5 तथा षष्ठं प्राभृतिकाख्यं, विवाहादेः पश्चात्पुरःकरणं प्राभृतं तेन प्राभृतिका 6 सप्तमं प्रादुष्कराख्यं, यत् आत्मार्थं वस्तुनः प्रकटीकरणं 7 अष्टमं क्रीताख्यं, क्रीयते-साधुनिमित्तमशनादि गृह्यते 8 नवमं प्रामित्यं, साध्वर्थमुद्धारानीतं 9 दशमं परावर्ताख्यं, परिवर्तितं साध्वर्थं कृतपरावर्तं 10 एकादशमभ्याहृतं, साध्वालयमानीय दत्तं 11 द्वादशं उद्भिन्नं, घयदिकं वस्तु उद्भिद्य-उद्घाट्य यद् दीयते 12 त्रयोदशंमालापहृतं, मालात्-मञ्चादेरपहृतं-साध्वर्थमानीतं, चः समुच्चये 13 चतुर्दशं आच्छेद्यं, आच्छिद्यते-अनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय गृह्यते 14 पञ्चदशं अनिसृष्टं, न निसृष्टं सर्वस्वामिभिः साधुदानायाननुज्ञातं 15 षोडशमध्यवपूरकं, स्वार्थपाकारम्भे अधिक्षेपः 16, एवं षोडश पिण्डोद्गमे-आहारोत्पत्तौ दोषाः स्युरिति गाथार्थः // तथा उद्गमः प्रसूतिरुत्पत्तिः प्रभवः जन्मेति पर्यायाः // 74-75 // अथोत्पादनादोषाः षोडश, नामतः सङ्ख्यातश्च तान् गाथायुगलेनाह - धाई 1 दूई 2 निमित्ते 3 आजीव 4 वणीमगे 5 तिगिच्छा य 6 / कोहे 7 माणे 8 माया 9 लोभे य 10 हवंति दस एए // 6 //