________________ 171 श्रीयतिदिनचर्या अवचूर्णियुता "उवसंपया उ तिविहा नाणे तह दंसणे चरित्ते य / एसा हु दसपयारा सामायारी तहान्ना य // 1 // " अर्थश्च - उपसम्पद् ज्ञानाद्यर्थमन्यगुरोनिश्राश्रयणं, सा तु त्रेधा - ज्ञान 1 दर्शन 2 चारित्र 3 रूपा, एतदर्थं युष्मानहमाश्रितः, एषा तु निश्चितं दशप्रकारा सामाचारी, अन्याप्यस्ति, यदाहुः - "पडिलेहणा 1 पमज्जण 2 भिक्खे 3 रिय४ऽऽलोअ५ भुंजणा चेव 6 / पत्तगधुवण 7 वियारा 8 थंडिल 9 आवस्सयाईया 10 // 1 // अर्थश्च-अन्या निशीथोक्ता दशधा सामाचारी, तत्र प्रातःप्रभृति क्रमशः प्रतिलेखनोपधेः 1 ततः प्रमार्जनं वसतेः 2 ततोऽपि भिक्षाचर्या 3 आगतैरीर्या प्रतिक्रम्या 4 आलोचनं कार्यं गृहादीनां 5 असुरसुरमिति भोक्तव्यं 6 कल्पत्रयेण पात्रकाणां धावनं कार्यं 7 विचार:-सञ्ज्ञोत्सर्गार्थं बहिर्यानं 8 स्थण्डिलानि द्वादश द्वादश त्रीणि च एवं सप्तविंशतिः 27, 9 आवश्यकं-प्रतिक्रमणं कार्यं 10, एषा चक्रवालनामिका दशधा सामाचार्यन्या // 70 // तथा दशधा सामाचारी प्रतिदिनं 2 पालयन् साधुः कथमवतिष्ठते इत्याशङ्क्याह - तह वट्टमाणजोगं भविस्सकज्जे परंमि नियजोगं / वोसिरणं चाकज्जे अणुजाणिज्जा य भासिज्जा // 71 // अर्थः-तथा भविष्यत्कार्ये परस्मिन्-अन्यस्मिन् वर्तमानयोगमनुज्ञापयेत्-वर्तमानयोगमिति भणयेत्, तथा निजयोगं-आत्मसंयोगं, अकार्यविषये व्युत्सर्ग परित्यज्य पश्चादनुज्ञापयेत् भाषयेद्वा / तथा प्रतिदिनं पुनरप्यात्मानं कथं स्थापयतीत्याह -