________________ 170 श्रीयतिदिनचर्या अवचूर्णियुता अथ तृतीया तथाकारसामाचारी, यदाहुः - "कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स / संजमतवडगस्स उ अविगप्पेणं तहागारो // 3 // " अर्थश्च - कल्पाकल्पे परिनिष्ठितस्य, कल्पः-आचारस्तद्विपरीतोऽकल्पः, यद्वा जिनकल्पादीनां कल्प:-चरकसुगतादीनां अकल्पः, तस्मिन् परिनिष्ठितस्य-ज्ञाननिष्ठां प्राप्तस्य, साधवस्तिष्ठन्ति येषु तानि स्थानानि-महाव्रतानि तेषु स्थितस्य, संयमतपोभ्यामाढ्यस्य गुरोनिर्विकल्पं वाचनादौ निश्चयेन तथाकारः, तदुक्ते तथेति भणनम् 3 तथा चतुर्थी आवश्यकीसामाचारी 4 पञ्चमी नैषेधिकीसामाचारी 5 यदाहुः - "आवस्सिया विहेया अवस्सगंतव्वकारणे मुणिणा। तंमि निस्सीहिया जत्थ सेज्जाठाणाइ आयरई // 1 // " अर्थश्च - मुनेः - साधोः अवश्यगन्तव्ये कारणे-निश्चितगन्तव्ये निमित्ते ज्ञानाद्यर्थगमने आवश्यकी विधेया 4 यत्र शय्यास्थानं शय्यावसतिस्तस्याः स्थानं प्रस्तावात् प्रवेशरूपं, आदेश्चैत्यादौ प्रवेशने, नैषेधिकी कुर्यादिति भावः 5 अथ षष्ठी आपृच्छा 6 सप्तमी प्रतिपृच्छा 7 अष्टमी छन्दना 8 नवमी निमन्त्रणा 9, यदाहुः - "आपुच्छणा उ कज्जे पुव्वनिसिद्धेण होइ पडिपुच्छा / पुव्वगहिएण छंदण 8 निमंतणा तो अगहिएणं 9 // 1 // " अर्थश्च कार्ये सति गुरोरापृच्छा कार्या, प्रभो ! इदमहं करोमीति 6 गुरुणा पूर्वं निषेधितेनावश्यंकार्यत्वात् प्रतिपृच्छा, यद्वा पूर्वं निरूपितेन करणकाले पुनः पृच्छा प्रतिपृच्छा 7 पूर्वगृहीतेन अशनादिना साधूनां छन्दनं-आह्वानं गृह्णन्त्वेतदिति 8 अगृहीतेन तु निमन्त्रणा 9, यत्तवेदमिदं वा योग्यमानयामीति,