________________ 154 श्रीयतिदिनचर्या अवचूर्णियुता तथा"सल्लुद्धरणनिमित्तं गीअत्थन्नेसणा उ उक्कोसा / जोयणसयाई सत्त उ बारस वासा उ कायव्वा // 2 // " // 51 // . इति गीतार्थभणित्यनन्तरं गुरवः किं कुर्वन्तीत्याशङ्क्याह - उट्ठिन्ति तओ गुरुणो मुणिणोऽवि य छोभवंदणं दाउं / पुत्तिं पेर्हिति तओ पत्ताई मत्त उवविट्ठा // 52 // तत उत्तिष्ठन्ति-ऊर्वीभवन्ति गुरवः, मुनयोऽपि छोभवन्दनं दत्त्वा मुखवस्त्रिका प्रतिलेखयन्ति, ततः पश्चात् पात्रादीनि मात्रकं च प्रत्युपेक्षन्ते परमुपविष्टाः / कानि पात्रादीनीत्याह - पत्तं पत्ताबन्धो पायट्ठवणं च पायकेसरिया / पडलाइं रयत्ताणं गोच्छओ पायनिज्जोगो // 53 // तथा पात्रं-भाजनं पात्रबन्धो-झोलिका पात्रस्थापनमूर्णामयं, च पुनः पात्रकेसरिका-पात्रप्रलेखिनी, क्षौमिकी मुखवस्त्रिकेत्यर्थः, पडलानि सौत्राणि जघन्यमध्यमोत्कृष्टरूपाणि, रजस्त्राणं-पात्रवेष्टनं, गोच्छकः ऊर्णानिष्पन्नः, पात्रनिर्योगः-पात्रपरिकरः, यदाहुः"तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं / इत्तो हीण जहन्नं अइरेगतरं तु उक्कोसं // 1 // " तथा श्रीआचाराङ्गवृत्तिः-"पात्रं त्रेधा-लाउपायं वा 1 दारुपायं वा 2 मट्टियापायं वा 3" इति, तथा पात्रबन्धप्रमाणं यदाहुः"पत्ताबंधपमाणं भायणमाणेण होइ कायव्वं / जह गंठिमि कयंमी कोणा चउरंगुला हुंति // 1 // " तथा पात्रकस्थापनादीनां प्रमाणं -