________________ श्रीयतिदिनचर्या अवचूर्णियुता 153 उउमासो तीसदिणो आइच्चो तीस होइ अद्धं च / अभिवड्डिओ अ मासो चउवीससएण छेएण // 2 // भागाणिगवीससयं तीसा एगाहिया दिणाणं च / एए जह निष्फत्तिं लहंति समयाउ तह नेयं // 3 // नाक्षत्रो मासः सप्तविंशत्यहोरात्रा: एकस्य चाहोरात्रस्य त्रिसप्तसप्तषष्टिभागाः, एकविंशतिरित्यर्थः, न्यासः 27 21, तथा चन्द्रमास एकोनत्रिंशदहोरात्राः द्वाषष्टिभागस्याहोरात्रस्य द्वात्रिंशत् 29 33, ऋतुमासः पूर्णानि त्रिंशदिति न्यासः 30, तथा आदित्यमासे त्रिंशदहोरात्रा भवन्ति अर्द्ध चाहोरात्रस्य, न्यासः 30 30, तथा अभिवर्धितमासे दिनानां एकाधिकत्रिंशत्-एकत्रिंशदहोरात्रा: एकस्य चाहोरात्रस्य चतुर्विंशत्युत्तररूपेण छेदेन-भागेन विभक्तस्य एकविंशत्यधिकं शतं भागानां भवति 31 124, एते पञ्च मासा यथा निष्पत्तिं लभन्ते तथा समयादवसेयम् / उक्तञ्च रत्नमालायाम् - "दर्शावधि मासमुशन्ति चान्द्रं, सौरं तथा भास्करराशिचारात् / त्रिंशद्दिनं सावनसझमार्या, नाक्षत्रमिन्दोर्भगणभ्रमाच्च // 1 // " // 50 // यथागमं पौरुषीस्वरूपमवगम्य प्राप्ते काले तां कथं भणति तदाहपढमपयंपि गणिज्जा तत्तो नमिऊण भणइ गीअत्थो / भयवं बहुपडिपुन्ना संजाया पोरसी पढमा // 51 // तत्र पौरुषीछायामिननसमये प्रमाणकरणवेलायां प्रथमपादमपि गणयेत्, तद्गणयित्वा ततोऽनन्तरं नमस्कृत्य-लघुवन्दनं दत्त्वा गीतार्थ:सूत्रवान् बहुप्रतिपूर्णा प्रथमा पौरुषी सञ्जातेत्युच्चैःस्वरेण भणति, उक्तं च"गीयं भन्नइ सुत्तं अत्थो पुण होइ तस्स वक्खाणं / गीएण य अत्थेण य जुत्तो सो होइ गीयत्थो // 1 // "