SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 152 श्रीयतिदिनचर्या अवचूर्णियुता देवाण महरिसीणवि समप्पए पुण्णिमाइ खलु मासो / आसाढपुण्णिमाए दुन्नि पया तेण नायव्वा // 50 // तथा देवानां-भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपाणां तथा महर्षीणां च पूर्णिमायां खलु-निश्चितं मासः समर्प्यते-गच्छति तेन हेतुना आषाढपूर्णिमायां द्वौ पादौ ज्ञातव्यौ, तथा सूत्रेऽपि मासभेदाः पञ्चोदाहृताः, यदाहुः"मासा य पंच सुत्ते नक्खत्तो 1 चंदिओ य 2 रिउमासो 3 / आइच्चोऽविय अवरो 4 अभिवड्डियओ य 5 पंचमओ // 1 // " अर्थश्च - नक्षत्रे भवो नाक्षत्रः, कोऽर्थः ?, चन्द्रश्चारं चरन् यावता कालेनाभिजिदारभ्योत्तराषाढान्तर्गच्छति तावन्नाक्षत्रमासः, यद्वा चन्द्रस्य नक्षत्रमण्डले परिवर्तनतो निष्पन्नः इत्युपचारतो मासोऽपि नक्षत्रम् 1, तथा चान्द्रो मासः, चन्द्रसम्भवः चान्द्रो, युगादौ श्रावणे मासि कृष्णप्रतिपदारभ्य पौर्णमास्यन्तश्चान्द्रो मासः, यद्वा चन्द्रचारनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः 2 तथा ऋतुमासः, ऋतुः-लोकरूढ्या षष्ट्यहोरात्रमानो मासद्वयात्मकः, तस्यार्द्धमप्यवयवे समुदायोपचारात् त्रिंशदहोरात्रप्रमाणो ऋतुमासः 3 आदित्यस्यायमादित्यः, स च एकस्य दक्षिणायनस्य उत्तरायणस्य वा अशीत्यधिकदिनशतप्रमाणस्य षष्ठभागमानः, यद्वा आदित्यचारनिष्पन्नत्वात् उपचारतो मासोऽप्यादित्यः 4, तथा पञ्चमोऽभिवद्धितो मासः, अभिवधितस्तु मुख्यतस्त्रयोदशचन्द्रमासमानः संवत्सरः, एकेन मासेन अभिवर्धितत्वात्, परं तद्द्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचारात् अभिवर्धितः 5, एते च नक्षत्रादयः पञ्च मासाः, अतो वृत्तिकारः पञ्चमासानां यथासङ्ख्यं दिनसङ्ख्यां गाथाव्याख्ययाऽऽह - अहरत्त सत्तवीसं तिसत्तसतसट्ठिभाग नक्खत्तो 1 / चंदो अउणत्तीसं बिसट्ठिभागा उ बत्तीसं // 1 //
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy