________________ श्रीयतिदिनचर्या अवचूर्णियुता 151 अथ प्रतिमासं हानेद्धेः किं स्वरूपमित्याशङ्क्याह - आषाढपूर्णिमायाः आरभ्य सप्ताहोरात्रेणाङ्गुलं वर्द्धते, पक्षण त्वङ्गुलद्विकं वर्द्धते, अनया पूर्वोक्तयुक्त्यैवाङ्गुलद्विकं हीयते वर्धते च, तथा मासेनपक्षद्वयरूपेण चतुरङ्गुलं वर्द्धते हीयते च, इयं व्यवहारपौरुषी // 47 // एष पश्चिमप्रहरप्रतिलेखनान्यासः, अतः प्रातः पौरुषीनिर्णय कर्तुमाशङ्कते - जिट्ठामूले आसाढसावणे चर्हि अंगुलेहि पडिलेहा / अट्टहिं बीअतिअंमि अ ततिए दस अट्टहिं चउत्थे // 48 // मूले आदौ ज्येष्ठ आषाढे श्रावणे च मासे षड्भिरङ्गलैः प्रतिलेखना भवति, यथा या पूर्वं ज्येष्ठे आषाढे श्रावणे च त्रिके तृतीयप्रहरे प्रतिलेखना कथिता तत्र षट् 2 अङ्गुलप्रक्षेपः कर्तव्यः, तथा द्वितीयत्रिके-भाद्रपदआसोकार्तिकरूपे तृतीयप्रहरप्रतिलेखनायां अङ्गुलाष्टकच्छायाप्रक्षेपः, तथा तृतीये त्रिके-मार्गशीर्षपौषमाघरूपे अङ्गुलदशच्छाया साधिकतया पौरुषी भणिता, चतुर्थे त्रिके-फाल्गुनचैत्रवैशाखरूपे अङ्गलाष्टकच्छायावृद्धिः, असावागमप्रणीतः प्रान्तप्रतिलेखनाविधिः // 48 // तथा ज्येष्ठामूलमत्र सूत्रे किमर्थं निश्चितं इत्याशङ्क्याह - वइसाहपुण्णिमाए समणंतरपडिवयाइ जो दियहो / तं चिय जिट्टामूलं छक्को पक्खेवओ तत्थ // 49 // वैशाखपूर्णिमायाः पश्चाद् या प्रतिपत् सा ज्येष्ठामूलसञ्ज्ञा तस्मिन्नेव ज्येष्ठामूले आदौ षड् प्रक्षेपः कर्तव्यः-षडङ्गलप्रक्षेपो विधेयः, अग्रेऽपि यथासूत्रं सर्वत्र बोद्धव्यम् // 49 // अथ पूर्णिमायां 2 षट्कादिप्रक्षेपः कथं स्वीकृत इत्याशङ्क्याह -