________________ 148 श्रीयतिदिनचर्या अवचूर्णियुता अलाभ रोग तणफासा, मल सक्कार परीसहा / पन्ना अन्नाण संमत्तं, इय बावीसं परीसहा // 44 // तत्र चाशेषपरीषहाणां क्षुत्परीषह एव दुःसहः, उक्तं च - "पंथसमा नत्थि जरा, दारिदसमो पराभवो नत्थि / मरणसमं नत्थि भयं खुहासमा वेयणा नत्थि // 1 // " इत्यादि, अतस्तमाह आदौ, क्षुत्परीषहो, ग्रन्थान्तरे त्वादौ दिगिंछाशब्देन देशीयभाषया बुभुक्षैवोच्यते, सैवात्यन्तव्याकुलताहेतुरपि संयमभीरुतया आहारपाकेषु प्रासुकान्नमेषणीयं, अस्य परीषह इति कथं सञ्ज्ञा ?, भुक्तिवाञ्छानिवर्तनेन परि-समन्तात् सह्यते इति क्षुत्परीषहः 1 तथा पिपासा-तृष्णा सैव परीषहः पिपासापरीषहः 2 तथा शीतंशीतस्पर्शपरीषहः 3 उष्णं-निदाघादितापात्मकं स एव परीषहः 4 तथा दंशमशकाः प्रतीताः, यूकाद्युपलक्षणं चैते 5 अचेलं-चेलाभावो जिनकल्पिकादीनां, अन्येषां त्वन्यथैव, भिन्नं अल्पमूल्यं चेलमपि अचेलम् 6 रतिः-संयमविषया धृतिः तद्विपरीता त्वरति: 7 तथा स्त्रीरामा तस्या एव तद्गतं रागहेतुविभ्रमेङ्गिताकारविलोकनेऽपि तदभिलाषविनिवर्तनेन परीसह्यमाणत्वात् 8 चर्या ग्रामानुग्रामविहरणात्मिका 9 नषेधिकी-श्मशानादिका स्वाध्यायभूमिः 10 शय्या-उपाश्रयः संस्तारको वा तौ समविषमौ प्राप्य नोद्विजते 11 आक्रोश:-असभ्यभाषणात्मक: 12 वधो-लकुटादिभिस्ताडनम् 13 याञ्चा-प्रार्थना धर्मोपकरणादिरूपा 14 अलाभ:-अभिलषितविषयाप्राप्तिः 15 रोगः-कुष्ठादिरूपः 16 तृणस्पर्शोदर्भकण्टकादिस्पर्शः 17 मलो-जल्लः 18 सत्कारो-वस्त्रादिभिः पूजनं, परस्मात् तद् लब्ध्वानुत्कर्ष कुर्यात्, असत्कारितो वा न द्वेषं 19 प्रज्ञापरीषहः-स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः 20 अज्ञानं-प्रज्ञाया अभावः 21, सम्यक्त्वपरीषहः-सम्यक्त्वं परिसह्यमाणं निश्चलचित्तेन