________________ 147 श्रीयतिदिनचर्या अवचूर्णियुता "थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु / जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ // 4 // " गणावच्छेदको-रत्नाधिकः, यथा - "उद्धावणापहावणखित्तोवहिमग्गणासु अविसाई / सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ // 5 // " // 40 // यस्मिन् गच्छे अमी आचार्यादयः पञ्च भवन्ति तत्र किं किं भवतीत्याशङ्क्याह - गच्छे अत्थं सुत्तं तवपमुहं जत्थ चेव य थिरत्तं / खित्तोवहिगहणाई सूरिप्पमुहा पसाहति // 41 // गच्छे आचार्यादिपञ्चप्रधानपुरुषोपेते अर्थ-वृत्तिग्रन्थरूपं सूत्रंवाचनामानं तपः-अनशनादि द्वादशविधं तत्प्रमुखं तथा चैव स्थिरत्वंनिश्चलीकरणं क्षेत्रोपधिग्रहणादिकं च सूरिप्रमुखा-आचार्यादयः पञ्च साधयन्ति-कथयन्ति // 41 // | तत्र केचिन्मुनयो द्वाविंशतिपरीषहेभ्यो भग्नाः किं कुर्वन्तीत्याह - केऽवि तहा मंदमई काउस्सग्गाइ आसणं झाणं / आयावणाइ कटुं कुव्वंति परीसहा भग्गा // 42 // केऽपि मन्दमतयो-हीनबुद्धयः, साधव इति शेषः, तथा-तेन प्रकारेण कायोत्सर्गादि-प्रलम्बितभुजद्वन्द्वक्रियादि, तथा आसनं-उपवेशनं ध्यानं-चिन्तनं आतापनादि कष्टं च कुर्वन्ति - विदधति, कथम्भूताःपरीषहेभ्यो भग्नाः द्वाविंशतिपरीषहेभ्य उद्विग्नाः // 42 // ते चागमप्रतीताः कति परीषहा एवेति विचार्य गाथायुगलेनाह - खुहा पिवासा सीउण्हं, दंसाऽचेला इत्थीओ। चरिया निसीहिया सिज्जा, अक्कोस वह जायणा // 43 //