________________ 146 श्रीयतिदिनचर्या अवचूर्णियुता तत्र गच्छे आचार्यादयः प्रधानीभूताः कियन्तो भवन्तीत्याशब्याह - आयरिय उवज्झाया पवित्ति थेरा तहेव गणवच्छा / एए पंच पहाणा जत्थ नरा हुंति सो गच्छो // 40 // तथैते वक्ष्यमाणाः प्रधाना-प्रधानीभूताः यत्र गच्छे नराः-मनुष्याः भवन्ति-जायन्ते स गच्छ:, एते के?-आदावाचार्यः 1 तदनु उपाध्यायः 2 तथा प्रवर्तकः 3 तथैव स्थविरा:-वृद्धवयस्काः 4 तथा गणावच्छेदकः 5, तस्मात् किमायातं ?, यत्रामी पञ्च न भवन्ति स गच्छो न, उक्तं च - "सो किं गच्छो भन्नइ जत्थ न विज्जंति पंच वरपुरिसा ? / आयरिय उवज्झाया पवित्ति थेरा गणावच्छा // 1 // तं किं भन्नइ गच्छं(रज्ज)जत्थ पहाणा न सन्ति पंच इमे / रायकुमारामच्चा सेणावइ खंडरक्खा य // 2 // " यथा स्वयं पञ्चविधाचारवन्तः अन्येषामपि तत्प्रकाशकत्वात् आचारसाधवः आचार्याः, यदाहुः"पंचविहं आयारं आयरमाणा तहा पहासंता / आयारं दंसंता आयरिया तेण वुच्चंति // 1 // " तथा उपाध्यायः, उपेत्य-समीपमागत्य यत्सकाशादधीयते इत्युपाध्यायः, यदाहुः"बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहेहिं / तं उवइसंति जम्हा उज्झाया तेण वुच्चंति // 2 // " प्रवर्तयति संयमयोगेषु प्रवर्तकः, यदाहुः"तवसंयमजोगेसुं जो जोग्गो तत्थ तं पवत्तेई / असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ // 3 // " तथा स्थिरकरणात् स्थविरः, यदाहुः