________________ 144 श्रीयतिदिनचर्या अवचूर्णियुता कालप्रवेदनं कुर्वन्ति, उक्तं च - "जे उण कालग्गाही ते पुत्तिं पेहिऊण किइकम्मं / काउं वसहिं तत्तो कालग्गहणं पवेयंति // 1 // " // 35 // काले प्रवेदिते पुनः को विधिविधेय इत्याशङ्क्याह - विहिणा वायणायरिओ सज्झायं पट्ठवेइ तह इयरे / अह उवओगो एसो आयारो सुत्तपोरिसीए // 36 // अथ तथा विधिना-आगमोक्तमार्गेण वाचनाचार्यो-व्रताधिकः स्वाध्यायं प्रथमं प्रस्थापयतीति, तथा पश्चादितरे-अन्ये सामान्यसाधवः स्वाध्यायं प्रस्थापयन्तीति शेषः, अथ स्वाध्यायानन्तरमुपयोगकरणं एष आचार:-क्रियाविशेषः सूत्रपौरुष्यां भवति, उक्तं च - "उवओगकरणकाले गीअत्था जं करंति सज्झायं / सो सुत्तपोरिसीए आयारो दंसिओ तेहिं // 1 // " // 36 // अथ स्वाध्यायसम्बन्धात् साधूनां सप्तमण्डलीनियममाह - सुत्ते अत्थे भोअण काले आवस्सए य सज्झाए / संथारे चेव तहा सत्तेया मंडली जइणो // 37 // यतिनो-मुनेः सप्तैता मण्डल्यः-पङ्क्तयो भवन्ति, श्रेणीरूपा मण्डली इत्यर्थः, कुत्र 2 ?-प्रथमा मण्डली सूत्रे-सूत्रवाचनायां 1 द्वितीया अर्थ-आगमार्थग्रहणे 2 सा त्वर्थपौरुष्यां भवति, तृतीया भोजने-अशने 3 चतुर्थी कालग्रहणे 4 पञ्चमी आवश्यके-प्रतिक्रमणे 5 षष्ठी स्वाध्यायेस्वाध्यायप्रस्थापने 6 सप्तमी संस्तारके चैव-शयनवेलायां 7, एता एव सप्त मण्डल्यः, एतास्वेव मण्डलीषु एकैकेनाचाम्लेन प्रवेष्टुं लभ्यते // 37 // अथ पौरुषीणां विशेषमाह -