________________ श्रीयतिदिनचर्या अवचूर्णियुता 143 लघुवन्दनयुगलेन-छोभवन्दनयुग्मेन संदेशापयित्वा अङ्गप्रतिलेखनां विधाय स्थापनाचार्य प्रतिलेखयति, तमेव स्थापनाचार्य प्रतिलिख्य स्थाने स्थापयित्वा च पुनरुपधिमुखवस्त्रिका प्रतिलेखयति // 32 // तामुपधिमुखवस्त्रिका प्रतिलिख्य पश्चात् किं करोतीत्याह - च पुनः छोभवन्दनयुगलेन-लघुक्षमाश्रमणद्वयेन उपधिं संदेशापयित्वा पश्चादुपधि प्रतिलेखयेत्, उत्तरार्द्धनैकार्थानाह-छोभवन्दनलघुवन्दनादयः क्षमाश्रमणएकार्थाः // 33 // इतः प्रभृति रात्रिविधेरनुक्रमः कथितः, ततः सूर्योदयात् कि विधेयमित्याशङ्क्याह - अथ रात्रिप्रतिक्रमणादिविधिकरणानन्तरं सूर्योदये वसति-शय्यां सुप्रमार्जयित्वा-सुतरां यतनया यतनापूर्वकं प्रमार्जयित्वा पुझं-कचवरं चोद्धत्य-उद्धरयित्वा परि-सामस्त्येन शोधयित्वा च षट्पदिकामक्षिकाकीटिकादि मृतप्राणिवर्गः तत्सङ्ख्यां च विधाय कचवरं छायायां - शीतलस्थाने परिष्ठाप्य पश्चादुपाश्रयाद् बहिः शतहस्तमात्रं शोधनीयं, तत्र नारीणां तिरश्चां च प्रसवमवबुद्ध्य अस्थ्यादिकं चोद्धृत्य पश्चादीर्यापथिकी प्रतिक्रामति, पश्चात् स एव शिष्यः वसति प्रवेदयति, यथा गुरोः पुरस्तादिति भणति-भगवन् वसति संदिसावं ?, वसतिं पवेउं ? // 34 // अथ प्रतिलेखनाप्रमार्जनयोः पदार्थनिरूपणं किमित्याशङ्क्याह - तत्र प्रतिलेखनां दृष्टिकृतां वदन्ति, ओघो रजोहरणादिभिः प्रमार्जनां वदन्ति, गीतार्था इति शेषः, यदाहुः"चक्खुइ निरिक्खिज्जइ जं किर पडिलेहणा भवे एसा / रयहरणमाइएहिं पमज्जणं बिति गीयत्था // 1 // " तथा कालग्रहणे-कालग्रहणविशेषे ये योगवाहिनो मुनयस्ते पोतिको प्रतिलिख्य च कृतिकर्म च कृत्वा वसतिं प्रवेदयित्वा पश्चात्