________________ श्रीयतिदिनचर्या अवचूर्णियुता 139 मुखवस्त्रिकाद्याः स्युः, उद्घाटपौरुष्यां पादोने प्रहरे पात्रनिर्योगः-पात्रपरिकरः सप्तविधः प्रतिलेखनीयः, तथा तत्र मुखवस्त्रिका आसनोपविष्टैः प्रतिलिख्यते, ततः प्रथमं गोच्छकः 1 ततः पटलानि 2 तदनु पात्रकेसरिका 3 पश्चाद् पात्रबन्धः 4 तदनु पात्रकं 5 ततोऽपि रजस्त्राणं 6 तस्मात् पात्रकस्थापनं 7, तथा तृतीयप्रहरे उपकरणचतुर्दशकं, यथा प्रथम पोतिका 1 तदनु चोलपट्टः 2 पश्चाद् गोच्छकः 3 पश्चात् चिलमली 4 तदनु पात्रकबन्धः 5 पश्चात् पटलानि 6 ततो रजस्त्राणं 7 ततः परिष्ठापनकं 8 ततो मात्रकं 9 पश्चाद् पात्रकं 10 ततोऽपि रजोहरणं 11 पश्चात् कल्पत्रिकं 14, इहान्योऽप्यौत्सर्गिकोपधिः प्रतिलेख्यः, उक्तं च - "उवगरणचउद्दसगं पडिलेहा // 1 // " उक्तार्थेयं // 26 // तथा दशप्रकारप्रतिलेखनीयोपधेः परिमाणं किमित्याशङ्क्याह - बत्तीसंगुलदीहं रयहरणं पुत्तिया य अद्धेणं / जीवाण रक्खणट्ठा लिंगट्ठा चोलपट्टो तु // 27 // कंबलमई निसिज्जा दसिया सहिया भणिज्ज रयहरणं / दुन्नि निसिज्जा इक्का खोमी पाउंछणं बीयं // 28 // तथा रजोहरणं द्वात्रिंशदङ्गुलदीर्घं भवति, उक्तं च - "बत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से / अटुंगुला दसाओ एग परं हीणमहियं वा // 1 // एयं ओहपमाणं भणियं निसीहस्स पंचमुद्देसे / छव्वीस वीस दंडो छब्बारस अंगुला दसिया // 2 // " रजोहरणकृत्यं च - "आयाणे निक्खेवे ठाण निसीयण तुयट्टसंकोए। पुव्वं पमज्जणट्ठा लिंगट्ठा चेव रयहरणं // 1 // "