________________ 138 श्रीयतिदिनचर्या अवचूर्णियुता पुनः 2 प्रश्नः कर्तुं दुःशक्यः, तत एतत्क्षमाश्रमणद्वयेन तत्तल्लघुकार्यविषये आचार्याणामनुमति मार्गयति, बहुवेलासम्भवान्यपि कार्याणि बहुवेलेत्युच्यते उपचारात्, गीतार्थस्त्वन्यथापि यथागमं विचार्य, उक्तं च - "जम्हा किच्चं गुरवो वियंति विणयपडिवत्तिहेउं वा / ऊसासाइ पमुत्तुं तयणापुच्छाइ पडिसिद्धं // 1 // सव्वंपि पडिक्कमणं अकुणंतो लहइ चउगुरू समणो / देसेण विराहतो लहइ पुणो मासलहुयाई // 2 // " किञ्च - "अविहिकया वरमकयं असूयवयणं वयंति समयनू / पायच्छित्तं जम्हा अकए गरुयं कए लहुयं // 1 // " ततः प्रतिलेखनां विधत्ते // 25 // सम्प्रति प्रतिलेखनाक्रमविधिः कथमित्याशङ्क्याह - मुहपत्ती रयहरणं दुन्नि निसिज्जाउ चोल कप्पतिगं / संथारुत्तरपट्टो दस पेहाऽणुग्गए सूरे // 26 // तत्र क्षमाश्रमणद्वयेन पूर्वमादौ मुखवस्त्रिका प्रतिलेखनीया 1 तदनु रजोहरणं 2 पश्चाद् रजोहरणस्य द्वे निषद्ये 4 तदनु चोलपट्टः-अधःपरिधरणवस्त्रं 5 तदनु कल्पत्रिकं 8 पश्चात् संस्तारकः 9 पश्चादुत्तरपट्टः 10, एता दश प्रतिलेखना विधेयाः, कदा?-अनुद्गते सूर्ये, यदाहुः"पडिलेहणाण गोसाऽवरण्ह उग्घाडपोरसीसु तिगं / तत्थ पहाएऽणुग्गयसूरे पडिक्कमणकरणाउ // 1 // " इहागमे प्रतिलेखनात्रयं भणितं-एका प्रातरेव, द्वितीया उद्घाटपौरुष्यां पादोनप्रहरे, तृतीया अपराह्ने तृतीये यामे, एतास्तिस्रः प्रतिलेखनाः यथा प्रातः प्रतिक्रमणादूर्ध्वमनुद्गते सूर्ये पूर्वोक्ता दश प्रतिलेखनाः