________________ श्रीयतिदिनचर्या अवचूर्णियुता 137 मोक्षः स्यात्, ततो हेतोस्तद्वद्ग्रन्थिसहितं प्रत्याख्यानं सदा कुरुत, भो भव्या इति शेषः / उक्तं च - "जे निच्चमप्पमत्ता गंठिं बंधंति गंठिसहियंमि / सग्गापवग्गसुक्खं तेहिं निबद्धं सगंठिमि // 1 // भणिउण नमुक्कारं निच्चं विम्हरणवज्जिया धन्ना / पारंति गंठिसहियं गठिं सह कम्मगंठीहिं // 2 // मंसासी मज्जरओ एक्केणं चेव गंठिसहिएणं / साहंतु तंतुवाओ सुसाहुवाओ सुरो जाओ // 3 // इह चिंतसु अब्भासं अब्भासं सिवपुरस्स जइ महसि / अणसणसरिसं पुण्णं वयंति एयस्स समयन्नू // 4 // " // 24 // इतः प्रभृति प्रत्याख्यानमाश्रित्य कियत् सर्वमुक्तं, तदनु साधुः किं करोतीत्याशङ्क्याह - पच्चक्खाणे सम्मं विहिए अणुसट्टि तिन्नि य थुईओ / वखंतियाउ चेइयवंदण बहुवेल पडिलेहा // 25 // प्रत्याख्याने सम्यग् विधिना-आकारविधिना विहिते-कृते पश्चात् 'अणुसट्ठि' इति ‘इच्छामोऽणुसर्द्धि' इति भणित्वा उपविश्यादौ गुरुरेव तिस्रो वर्द्धमानस्तुतयो 'विशाल [भाल] लोचनदल'मित्यादिरूपाः पठति, पश्चाद् परोऽपि साधुवर्गः, कथम्भूताः ?-वर्द्धत्यः, छन्दसेति शेषः, तदनु चैत्यादि-ततश्चैत्येषु आचार्यपरम्परया गुरुक्रमरूपया स्तोत्रेषु पठितेषु ततश्चतुर्भिः क्षमाश्रमणैराचार्यादीन् वन्दते, पश्चात् क्षमाश्रमणद्वयेन साधुः कृतपौषधश्राद्धश्च भगवन् बहुवेलं संदिसावउं ?, द्वितीयेन क्षमाश्रमणेन बहुवेलं करेमि इति भणति, बहुवेलस्यायमर्थःसर्वकार्याणि श्रीगुरुप्रश्नपूर्वकं कार्याणि, तेन च दिवसमध्ये लघुकार्येषु