________________ 136 श्रीयतिदिनचर्या अवचूर्णियुता यथासङ्ख्यं व्याख्यानं बोद्धव्यम् // 21 // अथ प्रत्याख्याने पौरुष्यादौ कृते कियान् कर्मक्षयः तदाह - पोरिसि चउत्थ छटुं काउं कम्मं खवंति जे मुणिणो / तं न हु नारयजीवा वाससयसहस्सलक्खेहिं // 22 // पौरुषी-पुरुषच्छाया चतुर्थ-एकोपवासरूपं षष्ठं-उपवासयुग्मरूपं एतल्लक्षणं तपः कृत्वा यत् कर्म सत्तागतं मुनयः-साधवः क्षिपन्तिनिराकुर्वन्ति तत् कर्म हु निश्चितं नारकिनो जीवा वर्षशतसहस्रलक्षैःवर्षकोटिभिर्न क्षिपन्ति-न निष्ठां नयन्ति // 22 // तर्हि तत्तपः कथम्भूतेन मनसा विधेयमित्याशङ्क्याह - तं तु तवो कायव्वं जेण जिओ मंगुलं न चिन्तेइ / जेण न इंदियहाणी जेण य जोगा न हायंति // 23 // तथा पुनः तत् तपः कर्तव्यं येन तपसा मन:-चित्तं अमङ्गलंदुर्ध्यानं न चिन्तयति-न स्मरति, तत् किं ?, येन तपसा इन्द्रियाणां स्पर्शनादीनां पञ्चानामपि हानिर्न भवति-निजनिजविषयक्षयो न स्यात्, येन च तपसा योगा-मनोवाक्कायरूपाः प्रतिक्रमणादयो वा हीनतां न व्रजन्ति // 23 // अथ सङ्केतप्रत्याख्यानमल्पकष्टसाध्यं कालानियमत्वात् तस्मिन् कृते किं फलमित्याशङ्क्याह - संकेयं पुण गंठियपमुहं बलुमि तंमि मणबंधो / गंठिमि य सिवसोक्खं बद्धं तो तं सया कुणह // 24 // सङ्केतप्रत्याख्यानं पुनर्ग्रन्थिप्रभृति-ग्रन्थ्याद्यष्टधोक्तं तदेवावसेयं, तस्मिन् ग्रन्थ्यादौ बद्धे मनसो बन्धो भवति, गन्थिमि च शिवसौख्यं