SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीयतिदिनचर्या अवचूर्णियुता 129 स्यात्, ‘सेसेसु' इति शेषेषु ग्रन्थिसहितादिषु चत्वार एव चरमोक्ताः 10 / ____ अथ निर्विकृतिप्रत्याख्यानं, तत्र 'निव्वीए अट्ठ नव य आगारा' निर्विकृतौ अष्टौ नव चाकाराः, तत्सूत्रं - 'निव्विगईओ पच्चक्खाइ अन्न० सह० लेवा० गिहि० उक्खि० पडु० पारि० मह० सव्व० वोसिरह / ' मनसो विकारहेतुत्वाद्विकृतयः, ताश्च दश, यदाहुः"खीरं 1 दहि 2 नवणीयं 3 घयं 4 तहा तिल्लमेव 5 गुड 6 मज्जं 7 / महु 8 मंसं 9 चेव तहा उग्गाहिमगं च 10 विगईओ // 1 // " __ अर्थश्च - तत्र क्षीराणि पञ्च गोमहिष्यजौष्ट्रयेलकानां, दधिनवनीतघृतादि चतुर्द्धा, उष्ट्रीणां दध्याद्यभावात्, तिलान्यपि चत्वारि तिलअलसीलट्ठासर्षपाणां, उक्तं च - "पंचेव य खीराइं चत्तारि दहीणि सप्पि नवणीए / चत्तारि य तिल्लाई दो वियडे फाणिए दुन्नि // 1 // महुपुग्गला अ तिन्नी चलचल ओगाहिमं च जं पक्कं / एएसि संसटुं वुच्छामि अहाणुपुव्वीए // 2 // " / शेषाणि तैलानि निर्विकृतिरूपाण्येव, गुडो द्वेधा-पिण्डो द्रवश्च, मद्यं द्वेधा-काष्ठजं पिष्टजं च, मधु त्रिधा-माक्षिकं कौन्तिकं भ्रामरं च, मांसं त्रेधा-जलस्थलखचरजन्तुभेदात् चर्मरुधिरमांसभेदाद्वा, 'अवगाहिमं' अवगाहेन-स्नेहबोलनेन निर्वृत्तं अवगाहिम-पक्वान्नं, पाकादिम, पक्वान्नमिति रूढं, स्नेहपूर्णायां तापिकायां अन्यस्नेहाक्षेपे यावच्चलाचलं खाद्यकादि त्रिः पच्यते तावद् विकृतिः ततः परं पक्वान्नानि योगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते, तानि तु निर्विकृतिप्रत्याख्यानेऽप्यागाढकारणे कल्पन्ते, अथ एकेनैव पूपकेनापि तापिका पूर्यते तदा द्वयमपि कल्पते इति वृद्धसामाचारी, एतासु दशसु विकृतिषु मद्यमांसमधुनवनीताख्याश्चतस्रोऽभक्ष्याः उक्तं च -
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy