________________ 128 श्रीयतिदिनचर्या अवचूर्णियुता भागः, स च दिवसस्य भवस्य वा, तद्विषयं प्रत्याख्यानमपि चरिमं उपचारात्, तत्र दिवसचरिमं सूर्योद्गमान्ते, भवचरिमं तु यावज्जीवं, द्वयोरपि चत्वार आकाराः, तत्सूत्रं - 'दिवसचरिमं भवचरिमं वा पच्चक्खाइ दुविहं तिविहं० चउ० आहारं अस० अन्न० सह० मह० सव्व० वोसिड्।' अर्थस्तु प्राग्वत्, अथ एकासनादिमतां किंफलमेतत्, नैवं, एकाशनादिकं हि अष्टाकारं, एतत् चतुराकारं, अत आकाराणां सक्षेपकरणात् सफलमेवेदं, निषिद्धरात्रिभोजिनामपि दिवसशेषे क्रियमाणत्वात् स्मारकत्वाच्च फलवदेव भवति, भवचरमे त्वनाकारत्वेऽपि आकारद्वयं भवति तस्याशक्यपरिहारत्वात्, अनाभोगात् सहसाकारेण च अङ्गल्यादेर्मुखे प्रक्षेपसम्भवात् 9 // 19 // अथाभिग्रहिकप्रत्याख्यानं, एतदेव साङ्केतिकमुच्यते, तदने वक्ष्यते, कथयिष्यति 'पंचचउरो अभिग्गह' इति, अभिग्रहे-अभिग्रहप्रत्याख्याने पञ्च चत्वारो वा आकाराः, सामान्येनोक्तं तत्सूत्रं - 'अंगुट्ठसहियं पच्चक्खाइ चउवि० अस० 4 अन्न० सह० मह० सव्व० वोसिरह / ' अर्थस्तु प्राग्वत्, एवमङ्गुष्ठमुष्टिग्रन्थ्यादिसहितमपि / देशतः अवकाशो देशावकाशः मुत्कलानां द्वादशव्रताभिग्रहाणां सक्षेपणित्यर्थः, तत्प्रयोजनमत्र देशावकाशिकं तत्प्रत्याख्याति, विशेषतो दिनोपयोगित्वात्, उपभोगे परिभोगे च, सकृद् भुज्यते उपभोगो द्रव्यसच्चित्तविकृतिस्रगादिकः पुनः पुनर्भुज्यते परिभोगो-वस्त्रालङ्काराङ्गनादिकः तत् प्रत्याख्याति, आह च - "सकृदेव भुज्यते यः, स भोगो० // " तथा अङ्गुष्ठादिसहिते अङ्गुष्ठमुष्टिग्रन्थि च यावन्न मुञ्चामि तावत् प्रत्याख्यानं, भवतीत्यर्थः / अथ पञ्चममाकारं स्थानविशेषतो दर्शयति 'अप्पावरणे'त्ति अप्रावरणाख्यः 'चोलपट्टागारेणं' इति पञ्चमः आकार: