________________ 127 श्रीयतिदिनचर्या अवचूर्णियुता "खीरदहीवियडाणं चत्तारि अंगुलाई संसटुं / फाणियतिल्लघयाणं अंगुलमेगं तु संसढें // 1 // महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसटुं। गुलपुग्गलणवणीए अद्दामलयं तु संसटुं // 2 // " अनेन न्यायेन अन्यविकृतीनामपि गृहस्थसंसृष्टत्वं श्रुताद् ज्ञेयं, तथा गृहस्थसम्बन्धिकरोटिकादिभाजनं विकृत्यादिना उपरि लिप्तं तदपि गृहस्थसंसृष्टमुच्यते, 'उक्खित्तविवेगेण'मिति उत्क्षिप्तविवेकः उद्धर्तुं शक्येषु प्रत्याख्यातविकृत्यादिषु च द्रव्यरूपेषु विवेको - निःशेषतया त्यागः, 'वोसिरइ'त्ति अनाचाम्लं व्युत्सृजतीत्यर्थः 6 / अथाभक्तार्थप्रत्याख्यानं, तस्मिन् प्रत्याख्याने पञ्चैवाकाराः, तत्सूत्रं - 'सूरे उग्गए अभत्तटुं प० तिविहं चउ० आ० असणं 4 अन्न० सव्व० वोसिड्।' अर्थश्च - न विद्यते भक्तेन अर्थः-प्रयोजनं यस्मिन् प्रत्याख्याने सः अभक्तार्थः, उपवास इत्यर्थः, अत्र पञ्चाकाराः प्राग्वत्, नवरं पारिष्ठापनिकाकारे विशेषः-त्रिविधाहारप्रत्याख्याने पारिष्ठापनिकं कल्पते, चतुर्विधाहारप्रत्याख्याने पानकेऽप्युद्धरितेऽपि कल्पते, 'वोसिरइत्तिभक्तार्थं परित्यजति / अथ त्रिविधाहारप्रत्याख्यानेषु पानकमाश्रित्य षडाकारा भवन्ति - 'छप्पाणे' इति, तत्सूत्रं-'पाणस्स लेवाएण वा अलेवाएण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्येण वा वोसिड् / ' अर्थश्च-इहाप्यन्यत्रेत्यनुवर्तते, लेपकृताद् भाजनाथुपलेपकात् खजूरपानकादेः अलेपकृतात्-निर्लेपादन्यत्र त्रिविधाहारं व्युत्सृजतीतियोगः, वाशब्दात् निर्लेपेनेव लेपकारिणाऽपि उपवासादेन भङ्ग इत्यर्थः, अच्छाद्वा-निर्मलादुष्णोदकादेः बहुलाद्वा गडुलतण्डुलधावनादेः ससिक्थाद्वा भक्तलेपोपेतादवश्रावणादेः असिक्थाद्वा-सिक्थवर्जितात् पानकाहारात् अन्यत्र व्युत्सृजति 8 // अथ चरिमं -'चरिम चत्तारि' इति चरिमः-अन्त्यो