________________ 126 श्रीयतिदिनचर्या अवचूर्णियुता "विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणमाई / तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं // 1 // " श्रावकस्त्वखण्डसूत्रत्वादुच्चरति, तत्र हि त्यज्यमाने महान् दोषः, गुर्वाज्ञया भुज्यमाने गुणः, ततस्तस्य भुञ्जानस्यापि न भङ्गः, अनेकाशनं परिहरति 4 // 18 // अथैकस्थानप्रत्याख्यानं, तस्मिन् सप्ताकाराः, तत्सूत्रमिदं - 'एगट्ठाणं पच्चक्खाइ चउ० आ० अस० पा० खा० सा० अन्न० सह० सागा० गुरु० पारिटा० मह० सव्व० वोसिइ / ' अत्र सप्ताकारा एकासनवत्, केवलं आउंटणपसारेणं न पठनीयं, सप्तानामर्थः प्राग्वत्, तथा एकं-अद्वितीयं स्थानं-अङ्गविन्यासरूपं यत्र तदेकस्थानं, यत् यथायोग्यमङ्ग भोजनकाले स्थापितं तस्मिन् तथा स्थित एव भोक्तव्यं, आकुञ्चनप्रसारणे न कार्ये, तथा मुखस्य पाणेश्चाशक्यपरिहारत्वात् चलनं न निषिद्धम् 5 / अथाचाम्लप्रत्याख्यानं-तस्मिन् अष्टावाकाराः, तत्सूत्रं - 'आयंबिलं पच्चक्खाइ अन्न० सह० लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पारि० मह० सव्व० वोसिरइ / ' अर्थश्च - आचामः-अवश्रावणं अम्लं-चतुर्थो रसः ते एते च प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माषसक्तुप्रभृतिके तत् आचाम्लं समयभाषयोच्यते, अत्र आद्यौ द्वौ अन्त्यास्त्रयः एवं पञ्चाकाराः प्राग्वत्, 'लेवालेवेण'मिति भाजनादेः प्रत्याख्यातविकृत्यादिना लेपः तस्यैव हस्तादिना संलेखनादलेपः लेपश्चालेपश्च लेपालेपं ततोऽन्यत्र, भाजनादेविकृत्याद्यवयवयोगेऽपि न भङ्गः, 'गिहत्थसंसटेणं' ति गृहस्थेन स्वार्थं दुग्धेन ओदनः संसृष्टः, तच्च दुग्धं तदुपरि चत्वार्यङ्गुलानि यावद्वर्तमानं अविकृतिः, अधिकं तु विकृतिरेव, यदाहुः