________________ श्रीयतिदिनचर्या अवचूर्णियुता 125 प्रत्याख्याति, अत्र षडाकाराणामर्थः प्राग्वत्, ‘महत्त०' महत्तरं-प्रत्याख्यानानुपालनादपि बहुतरनिर्जरानिमित्तं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिकार्यं तदेवाकार:-अपवादो महत्तराकारः तस्मादयंगपि भुञ्जानस्य न भङ्गः, यथात्रैव महत्तराकारपाठो न नमस्कारसहितादौ तत्र कालमहत्त्वाल्पत्वे हेतू, तथा अपार्धप्रत्याख्यानमप्येतत्तुल्यमाकारैः, परमिहापि कालतो भेदः 4 / अथैकाशनप्रत्याख्यानं, एकाशनप्रत्याख्याने अष्टावाकाराः, तत्सूत्रं - ‘एगासणं पच्चक्खाइ दु० ति० चउविहंपि आहारं असणं 4 अन्न० सह० सागारिआगारेणं आउंटणपसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं मह० सव्व० वोसिइ / ' अर्थश्च - एकं-सकृत् अशनंभोजनं एकं वा आसनं-पुताचालनतो यत्र तदेकाशनं एकासनं वा, प्राकृते द्वयोरप्येकासणमितिरूपं, एवं व्यासनमपि, अत्र प्रथमावन्त्यौ चाकारौ मिलितौ चत्वारस्तेषामर्थः प्राग्वत्, सहागारेण वर्तते सागारः स एव सागारिको-गृहस्थः स एवाकारः-तस्य पश्यतोऽन्यत्रापि गत्वा भुञ्जानस्य न भङ्गः, तत्समक्षं भोजने तु महादोषः, यदार्षम्"छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं / आहारे नीहारे दुगुंछिए पिंडगहणे य // 1 // " गृहस्थस्य यदृष्टं तु भोजनं न जीर्यते स सागारिको बंदिकादिर्वा, 'आउंटण' इति आकुञ्चनं-जङ्घासनसङ्कोचनं प्रसारणं-तस्या एव ऋजुकरणं, आकुञ्चने प्रसारणे च क्रियमाणे किञ्चिदासनं चलति तत्रापि न भङ्गः 'गुरु०' इति गुरोः-आचार्यस्य प्राघूर्णकस्य वा साधोरागच्छतोऽभ्युत्थानं विधाय पश्चाद् भुञ्जतोऽपि न भङ्गः, 'पारिहा' इति परिष्ठापनंसर्वथा त्यजनं प्रयोजनमस्येति पारिष्ठापनिकं-अधिकीभूतं वस्तु तदेवाकार: पारिष्ठापनिकाकारः अयमाकारः साधोरेव, उक्तं च -