________________ 124 श्रीयतिदिनचर्या अवचूर्णियुता अ० सह० पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिइ 2 / ' अर्थश्च पुरुषः प्रमाणमस्याः सा पौरुषी० छाया तद्युक्तः कालोऽपि पौरुषी, प्रहर इत्यर्थः केवलं याम्योत्तररेखायाः आत्मनश्चान्तरे पूर्वपश्चिमरेखैव छायेति ग्राह्या, तां पौरुषीं प्रत्याख्याति, अत्र षडाकाराणां मध्ये प्रथमौ द्वौ पूर्ववत्, अन्यत्र प्रच्छन्नकालात् दिङ्मोहात् साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च, प्रच्छन्नता च कालस्य मेघेन रजसा गिरिणा वाऽन्तरितत्वात्सूर्यस्यादर्शने, तेन अपूर्णामपि पौरुषी ज्ञात्वा पूर्णां भुञ्जानस्य न भङ्गः, ज्ञात्वा त्वर्धभुक्तेनापि तथैव स्थातव्यं यावत् पौरुषी पूर्यते, ततः परं भोक्तव्यं, अन्यथा तु भङ्ग एव 3, दिङ्मोहादिषु यदा पूर्वामपि पश्चिमेति जानाति तदा पौरुष्यामपूर्णायामपि न भङ्गः, मोहविगमे तु पूर्वविधिः 4, साधुवचनं-उद्घाटापौरुषीत्यादिकं भ्रान्तिकारणं तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते अन्येन वा कथिते प्राविधिविधेयः, सर्वसमाधिः-गाढातङ्कादिरहितत्वं, गाढातङ्कादौ च तत्प्रत्यय आकार:-प्रत्याख्यानापवादो भवति, अयमभिप्रायःआकस्मिकतीव्रशूलादिदुःखोद्भवार्तरौद्रध्यानोपशमाय सर्वेन्द्रियसमाध्यर्थं पथ्यौषधादि कुर्वाणस्य अपूर्णायामपि पौरुष्यां न भङ्गः, जाते तु समाधौ पूर्वविधिः, उक्तं च - "चउहाऽऽहारं तु नमो रतिपि मुणीण सेस तिय चउहा / निसिपोरिसि पुरिमेगासणाइ सड्डाण दुतिचउहा // 1 // " तथा सार्द्धपौरुषीप्रत्याख्यानं तु पौरुषीतुल्यमाकारैः, परन्तु कालतो भेदः 3 / अथ पूर्वार्द्धप्रत्याख्याने तस्मिन् सप्ताकाराः, तत्सूत्रमिदं- 'सूरे उग्गए पुरिमढे पच्चक्खाइ दुविहं तिविहं चउव्विहंपि आहारं असणं पाणं खा० सा० अ० स० पच्छ० दिसा० साहु० महत्तरागारेणं सव्व० वोसिड्।' अर्थश्च - पूर्वं च तदर्धं च पूर्वार्ध-दिनस्यार्धं प्रहरद्वयं तत्